अपरोक्षे च

3-2-119 अपरोक्षे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने लट् स्मे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपरोक्षे च भूतानद्यतनेऽर्थे वर्तमानाद् धातोः स्म उपपदे लट् प्रत्ययो भवति। एवं स्म पिता ब्रवीति। इति स्मोपाध्यायः कथयति॥

Siddhanta Kaumudi

Up

भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपरोक्षे च>> - अपरोक्षे च । एवं स्मेति । पिता एवमुक्तवानित्यर्थः ।

Padamanjari

Up

अपरोक्षे च॥ पूर्वसूत्रेण परोक्षे विधानादपरोक्षे न प्राप्नोतीत्ययमारम्भः, पूर्वसूत्र एव परोक्षग्रहणं निवर्तिष्यते। यद्येवम्, तत्सम्बन्धादनद्यतनग्रहणमपि निवर्तेत मा निवृतदित्येवमर्थमिदम्, द्वयोर्हि प्रकृतयोरेकनिवृत्तिर्यत्नेन क्रियमाणा इतरस्यानिवृत्तिमनुमापयति॥