आङि ताच्छील्ये

3-2-11 आङि ताच्छील्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हरतेः अच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आङ्पूर्वाद् हरतेः कर्मण्युपपदेऽच् प्रत्ययो भवति ताच्छील्ये गम्यमाने। ताच्छील्यं तत्स्वभावता। पुष्पाहरः। फलाहरः। पुष्पाद्याहरणे स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्येत्यर्थः। ताच्छील्य इति किम्? भारमाहरतीति भाराहारः॥

Siddhanta Kaumudi

Up

पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आङि ताच्छील्ये>> - आङि ताच्छील्ये । आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यं - तत्स्वभावता । पुष्पाहर इति । पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः ।

Padamanjari

Up

आङ् ताच्छील्ये॥ पुष्पाद्याहिरणे इत्यादिना ताच्छील्यमुदाहरणे दर्शयति। स्वाभाविकीति। स्वभावे भवा स्वाभाविकी, अध्यात्मादिः। स्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते। भाष्यकारप्रयोगातु द्वारादिकार्याभावः, स्वार्थिकस्वाभाविकश्ब्दौ भाष्ये प्रयुक्तौ। अस्य विवरणम् - फलानपेक्षेति। कथं पुनः फलमनपेक्ष्य तत्र प्रवर्तते, न हि स्वभावः पर्यनुयोगमर्हति॥