लट् स्मे

3-2-118 लट् स्मे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने परोक्षे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भूतानद्यतनपरोक्ष इति वर्तते। स्मशब्द उपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति। लिटोऽपवादः। नडेन स्म पुराधीयते। ऊर्णया स्म पुराधीयते॥

Siddhanta Kaumudi

Up

लिटोऽपवादः । यजति स्म युधिष्ठरः ॥

Laghu Siddhanta Kaumudi

Up

लिटोऽपवादः। यजति स्म युधिष्ठिरः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लट् स्मे>> - लट् स्मे ।स्मे॑त्यव्ययम् । तद्योगे लिड्विषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः ।

Padamanjari

Up

लट् स्मे॥ नडेन स्म पुराधीयते इति। अधिपूर्वादिङ्ः कर्मणि लकारः, कर्माविवक्षायां वा भावे, नडेनेति कर्तरि तृतीया। अथ वा - अधीयते इति कर्तरि बहुवचनम्, ठात्मनेपदेष्वनतःऽ इत्यदादेशः, नडेनेति सहयोगे तृतीया। अन्ये तु व्याचक्षते - पुराकल्पे - पुराकल्पे नडाख्यं तृणविशेषं हस्ते गृहीत्वाधीयाना अधीयते स्मेति॥