3-2-114 विभाषा साकाङ्क्षे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने अभिज्ञावचने लृट्
index: 3.2.114 sutra: विभाषा साकाङ्क्षे
यदि इति न अनुवर्तते। उभयत्र विभाशेयम्। अभिज्ञावचने उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति, साकाङ्क्षश्चेत् प्रयोक्ता। लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवति। अभिजानसि देवदत्त कश्मीरेषु वत्स्यामस् तत्र उदनं भोक्ष्यामहे। अभिजानासि देवदत्त मगधेषु वत्स्यामः, तत्र उदनं भोक्ष्यामहे। यदि खल्वपि अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्र उदनं भोक्ष्यामहे। अभिजानसि देवदत्त यत् कश्मीरेष्ववसाम, यत् तत्र उदनमभुञ्ज्महि। वासो लक्षणं, भोजनं लक्ष्यम्।
index: 3.2.114 sutra: विभाषा साकाङ्क्षे
उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि <{SK2774}> इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् <{SK2171}> चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥<!अत्यन्तापह्नवे लिड्वक्तव्यः !> (वार्तिकम्) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥
index: 3.2.114 sutra: विभाषा साकाङ्क्षे
विभाषा साकाङ्क्षे - विभाषा । उक्तविषये इति । अभिज्ञाबोधिन्युपपदे इत्यर्थः । लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः । अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः । वासो लक्षणमिति ।चारणस्ये॑ति शेष- । उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एव 'विभाषा साङ्काक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यं,यदि च अयदि चाऽयं विकल्प॑ इति भाष्यात्तदाह — यच्छब्दयोगेऽपीति ।परोक्षे लि॑डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह — उत्तमपुरुषे चित्तेति । सुप्त इति । सुप्तत्वादहं विललापेत्यर्थः । अत्र स्वापाच्चित्तविक्षेपः । बहु जगदेति । मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । आदिना व्यासङ्गसङ्ग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववात्सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः ।अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति.॑ इति वचनादिति भावः । नाहं कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम् । अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्रअकर्मकधातुभिर्योगे देशः कालो भावः॑ इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् ।
index: 3.2.114 sutra: विभाषा साकाङ्क्षे
विभाषा साकाङ्क्षे॥ उभयत्रविभाषेयमिति। प्राप्ते चाप्राप्ते च। असति यच्छब्दे ठभिज्ञावचने लृट्ऽ इति प्राप्ते सति यच्छब्दे प्रतिषेधे प्राप्ते। आकाङ्क्षणमुआकाङ्क्षा, आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाक्षङ्क्षा च चेतनावतो धर्मः, तस्मात्साकाक्षङ्क्ष इत्येतत्प्रयोक्तृविशेषणम्, तेन सकर्मक इत्यादिवत्समासः। साकाङ्क्षश्चेत्प्रयोक्तेति। ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इत्यत्र तु प्रयोक्तृगताकाङ्क्षाध्यारोपेण तिङ्न्तमाकाङ्क्षमिति वक्ष्यते। इह तु मुख्ये प्रयोक्तरि सम्भवति, गौणकल्पनया धात्वर्थविशेषणमयुक्तमिति भावः। ईद्दशे पुनर्विषये प्रयोक्ता साकाङ्क्षो भवतीत्याह - लक्ष्यलक्षणयोः सम्बन्धे इति। यत्रैको धात्वर्थो लक्ष्यः, अपरो लक्षणम्, तत्र द्वयोर्लक्ष्यलक्षणभावेन सम्बन्धे सति प्रयोक्तुराकाङ्क्षा भवति, तत्र न वासमात्रं प्रतिपाद्य प्रयोक्ता चरितार्थो भवति, किन्तु तेन प्रसिद्धेन भोजनादिकं स्मारयितुं प्रवर्तते॥