विभाषा साकाङ्क्षे

3-2-114 विभाषा साकाङ्क्षे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने अभिज्ञावचने लृट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यदीति नानुवर्तते। उभयत्र विभाषेयम्। अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता। लक्ष्यलक्षणयोः संबन्धे प्रयोक्तुराकांक्षा भवति। अभिजानासि देवदत्त कश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे। अभिजानासि देवदत्त मगधेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे। यदि खल्वपि — अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्रौदनं भोक्ष्यामहे। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम, यत् तत्रौदनमभुञ्ज्महि। वासो लक्षणम्, भोजनं तु लक्ष्यम्॥

Siddhanta Kaumudi

Up

उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि <{SK2774}> इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् <{SK2171}> चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥<!अत्यन्तापह्नवे लिड्वक्तव्यः !> (वार्तिकम्) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा साकाङ्क्षे>> - विभाषा । उक्तविषये इति । अभिज्ञाबोधिन्युपपदे इत्यर्थः । लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः । अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः । वासो लक्षणमिति ।चारणस्ये॑ति शेष- । उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एव 'विभाषा साङ्काक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यं,यदि च अयदि चाऽयं विकल्प॑ इति भाष्यात्तदाह — यच्छब्दयोगेऽपीति ।परोक्षे लि॑डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह — उत्तमपुरुषे चित्तेति । सुप्त इति । सुप्तत्वादहं विललापेत्यर्थः । अत्र स्वापाच्चित्तविक्षेपः । बहु जगदेति । मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । आदिना व्यासङ्गसङ्ग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववात्सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः ।अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति.॑ इति वचनादिति भावः । नाहं कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम् । अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्रअकर्मकधातुभिर्योगे देशः कालो भावः॑ इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् ।

Padamanjari

Up

विभाषा साकाङ्क्षे॥ उभयत्रविभाषेयमिति। प्राप्ते चाप्राप्ते च। असति यच्छब्दे ठभिज्ञावचने लृट्ऽ इति प्राप्ते सति यच्छब्दे प्रतिषेधे प्राप्ते। आकाङ्क्षणमुआकाङ्क्षा, आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाक्षङ्क्षा च चेतनावतो धर्मः, तस्मात्साकाक्षङ्क्ष इत्येतत्प्रयोक्तृविशेषणम्, तेन सकर्मक इत्यादिवत्समासः। साकाङ्क्षश्चेत्प्रयोक्तेति। ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इत्यत्र तु प्रयोक्तृगताकाङ्क्षाध्यारोपेण तिङ्न्तमाकाङ्क्षमिति वक्ष्यते। इह तु मुख्ये प्रयोक्तरि सम्भवति, गौणकल्पनया धात्वर्थविशेषणमयुक्तमिति भावः। ईद्दशे पुनर्विषये प्रयोक्ता साकाङ्क्षो भवतीत्याह - लक्ष्यलक्षणयोः सम्बन्धे इति। यत्रैको धात्वर्थो लक्ष्यः, अपरो लक्षणम्, तत्र द्वयोर्लक्ष्यलक्षणभावेन सम्बन्धे सति प्रयोक्तुराकाङ्क्षा भवति, तत्र न वासमात्रं प्रतिपाद्य प्रयोक्ता चरितार्थो भवति, किन्तु तेन प्रसिद्धेन भोजनादिकं स्मारयितुं प्रवर्तते॥