3-2-113 न यदि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने अभिज्ञावचने लृट्
index: 3.2.113 sutra: न यदि
यच्छब्दसहिते अभिज्ञावचन उपपदे लृट् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम। वासमात्रं स्मर्यते, न तु अपरं किंचिल् लक्ष्यते। तेन उत्तरसूत्रस्य न अयं विषयः।
index: 3.2.113 sutra: न यदि
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥
index: 3.2.113 sutra: न यदि
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥
index: 3.2.113 sutra: न यदि
न यदि - न यदि ।यदी॑ति सप्तमीति मत्वाह - यद्योगे इति । उक्तं नेति । 'अभिज्ञावचने' इति लृण्न भवतीत्यर्थः । अभिजानासीति । वने अभुञ्जमहीति यत्तस्मरसीत्यर्थः ।
index: 3.2.113 sutra: न यदि
न यदि॥ यदीति सतिसप्तमीयम्। अभिज्ञावचनं चानुवर्तते, तेन यत्र यच्छब्दोऽस्ति, तत्र यदभिज्ञावचनं तन्नियोगतो यच्छब्देन सहितं भवतीत्यभिप्रेत्याह - -यच्छब्दसहित इत्यादि। अवसामेति। वेसर्लङ् मस्,'नित्यं ङ्तिः' इति सलोपः, दीर्घः, वासमात्रमित्यादिनोतरसूत्रस्य नायं विषय इति दर्शयति। यदि तत्रापरं किञ्चिल्लक्ष्यमपेक्ष्येत तदोतरसूत्रेण पाक्षिको विधिस्स्यात्, तच्च नेष्यते, तस्मान्न तस्य विषयः॥