3-2-112 अभिज्ञावचने लृट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने
अभिज्ञा स्मृतिः, तद्ववचन उपपदे भूतानद्यतने लृट् प्रत्ययो भवति। लङोऽपवादः। अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः। वचनग्रहणं पर्यायार्थम्। अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति॥
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् । लङोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् । लङोऽपवादः ॥ वस निवासे ॥ स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे, चेतयसे इत्यादिप्रयोगेऽपि ॥
<<अभिज्ञावचने लृट्>> - अभिज्ञावचने लृट् । अभिज्ञा = स्मृतिः, सा उच्यते बोध्यते अनेनेति विग्रहः । तदाह — स्मृतिबोधिन्युपपदे इति । स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः । 'भूते' इत्यधिकृतम् ।अद्यतने ल॑ङित्यतोऽनद्यतने इत्यनुवर्तते । तदाह - भूतानद्यतने इति । लङ इति ।अनद्यतने ल॑ङित्यस्यापवाद इत्यर्थः । स्मरसीति । हे कृष्ण ! गोकुले अवसामेति यत्तत्स्मरसीत्यर्थः । अत्र वाक्यार्थः कर्म । कृतं गोकुलवासं स्मरसीति यावत् । एवमिति । समरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लृडित्यर्थः । ननु बुध्यत्यादेः स्मृत्त्विएन रूपेण स्मृत्यर्थकत्वाऽभावात्कथमिहि लृडित्यत आह — तेषामपीति । पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लृट् । एतदर्थमेव वचनग्रहणमिति भावः ।
अभिज्ञावचने लृट्॥ वत्स्याम इति। वसेलृट् मस्,'स्यतासां लृलुटोः' इति स्यप्रत्ययः,'सस्यार्द्धधातुके' इति सस्य तकारः, ठतो दीर्घो यञिऽ इति दीर्घः। वचनग्रहणमित्यादि। असति वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्, तस्मिंस्तु सति यावन्तोऽभिज्ञानवचनास्तेषु भवति। बुद्ध्यसे चेतयसे इति। अर्थप्रकरणादिना स्मृतिरूपे ज्ञाने यदानयोर्वृत्तिस्तदात्रापि भवतीति भावः॥