3-2-108 भाषायां सदवसश्रुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते लिटः ज्वा
सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति। आदेशविधानादेव लिडपि तद्विषयोऽनुमीयते । उपसेदिवान् कौत्सः पाणिनिम्। तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति। उपासदत्। उपासीदत्। उपससाद। अनूषिवान् कौत्सः पाणिनिम्। अन्ववात्सीत्। अन्ववसत्। अनूवास। उपशुश्रुवान् कौत्सःपाणिनिम्। उपाश्रौषीत्। उपाशृणोत्। उपशुश्राव। लुङ्लङ्विषये परस्तादनुवृत्तेः क्वसुर्भवति॥
सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवञ्जनस्य । शुश्रुवान् ॥
<<भाषायां सदवसश्रुवः>> - भाषायाम् । सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी । पुंस्त्वमेकवचनं चार्षम् । तस्य च नित्यं क्वसुरिति । वाग्रहणं लिटैव संबध्यते, तस्य क्वसुस्तु नित्य इति भाष्ये स्पष्टम् । पक्षे लुङ्, तस्य भूतसामान्ये विहितत्वात् । वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात् । सरूपत्वात् । अस्य च भूतसामान्ये लिटो न तिङ् । अस्य क्वसोस्तदपवादत्वात् । वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानेज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः । निषेदुषीमिति । निपूर्वात्सदेर्लिटः क्वसुः, द्वित्वम्, 'अत एकहल्मध्ये' इत्येत्त्वाभ्यासलोपौ,वसास्सम्प्रसारणं, पूर्वरूपं, षत्वम् । अध्यूषुष इति । अधिपूर्वाद्वसधातोर्लिटः क्वसुः, याजित्वाद्धातोर्वस्य संप्रसारणम् । पूर्वरूपम् । उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः । शसि वसोः संप्रसारणं, पूर्वरूपम् । शुश्रुवानिति । श्रुधातोर्लिटः क्वसुः । द्वित्वम् ॥
भाषायां सदवसश्रुवः॥ आदेशविधानादेवेत्यादि। यदि भाषायां सदादिभ्यो भूतसामान्ये लिण्न स्यात्, ततस्ताद्दशस्य लिट आदेशविधानमनुपपन्नं स्यादिति मन्यते। ननु च'लिटः कानज्वा' इत्यत्र पुनर्लिड्गहणस्य प्रयोजनमुक्तम् - योऽपि परोक्षे लिड्विहितस्तस्याप्ययमादेशो भवतीति, तच्चेत्सत्यम्, इहापि यः परोक्षे लिट् स भाषायामपि सदादिभ्यः सम्भवतीति तस्येवेदमादेशविधानं स्यात्? उच्यते - लिङ्लिड्विषयेऽपि परस्तादनुवृतेर्भवतीति वक्ष्यति, ततो नानेन परोक्षे लिट आदेशाभिधानम्, किं तर्हि? भूतसामान्ये, ततश्चादेशविधानादेव लिडपि तद्विषयोऽनुमातव्यः। यद्येवम्, तस्य पक्षे क्वस्वादेशः पक्षान्तरे तिङं श्रवणं प्राप्नोति? न वावचनेन क्वसुरभिसम्बद्ध्यते क्वसुर्वा भवतीति, किं तर्हि? लिडभिसम्बद्ध्यते, भाषायां सदादिभ्यो वा लिट्; तस्य नित्यं स्वसुरादेशो भवतीति। वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थ योजनीयः। उपासददिति। लृदित्वादङ्। उपासीददिति पाघ्रादिसूत्रेण सीदादेशः। अनूषिवानिति। यजादित्वात्सम्प्रसारणम्ठ्शासिवसिघसीनां चऽ इति षत्वम्। अन्ववात्सीदिति।'सस्यार्द्धधातुके' इति तत्वम्। अनूवासेति।'लिट।ल्भ्यासस्योभयेषाम्' इत्यभ्यासस्य सम्प्रसारणम्। लुङ्लङ् विषयेऽपि परस्तादनुवृतेर्भवतीति। अन्यथा भूतसामान्ये लुङ् विहितस्त्रैव धातुविशेषेऽनेनादेशविधानेनानुमितो लिडपवादः। तथा भूतविशेषे लङ्लिटौ लुङ् एवापवादौ। सदादिभ्यस्तु भूतविशेषे एतत्सूत्रविहितं च कार्य प्राप्नोति, लङ्लिटौ च; अपवादविप्रतिषेधाल्लङ्लिटावेव स्याताम्॥