3-2-104 जीर्यतेः अतृन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते
<<भूते>> ३.२.८४ इति वर्तते। जीर्यतेरतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वासरूपेण निष्ठा। जीर्णः। जीर्णवानिति॥
भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥
<<जीर्यतेरतृन्>> - जीर्यतेरतृन् । भूते इत्येवेति । भूतार्थवृत्तेर्जृधातोरतृन् स्यादित्यर्थः । ऋकारनकारावितौ । अत्प्रत्ययः शिष्यते । जरन्निति.उगित्त्वान्नुम् । जीर्ण इति ।ऋत इत् । रपरत्वम् । ' हलि च' इति दीर्घः । निष्ठानत्वम् ।