3-2-100 अनौ कर्मणि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते जनेर्डः उपसर्गे
अनुपूर्वाज् जनेः कर्मण्युपपदे डः प्रत्ययो भवति। पुमांसमनुजातः पुमनुजः। स्त्र्यनुजः॥
अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥
<<अनौ कर्मणि>> - अनौ कर्मणि । ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह — पुमांसमनुरुध्येति । अनुरुध्य जननं धात्वर्थ इति भावः । पुमनुजेति । पुंसिति पूर्वपदे संयोगान्तलोप इति भावः ।
अनौ कर्मणि॥ पुमांसमनुजात इति। पुमांसमनुरुद्ध्य जात इत्यर्थः, तेनास्य सकर्मकत्वम्। पुमनुज इति पुंसः संयोगान्तलोपः॥