3-1-150 आशिषि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वुन्
index: 3.1.150 sutra: आशिषि च
आशिषि गम्यमानायां धातुमात्रात् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स च इह क्रियाविषयः। अमुष्याः क्रियायाः कर्ता भवेतित्येवमाशास्यते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः। तृतीयाध्यायस्य द्वितीयः पादः।
index: 3.1.150 sutra: आशिषि च
आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात् - नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥
index: 3.1.150 sutra: आशिषि च
आशिषि च - आशिषि च । जीवक इत । आशास्यमानजीवनक्रियाश्रय इत्यर्थः । एवं नन्दकः । आशीरिति । आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं = नन्दकशब्दप्रयोगः । औचित्यादिति भावः । [इति तृतीयाध्यायस्य प्रथमः पादः] । अथ तृतीयाध्यायस्य द्वितीयः पादः ।
index: 3.1.150 sutra: आशिषि च
आशिषि च॥ आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्तरि कृत्ऽ इति कर्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थनाउआशीः। स चेत्क्रियाविषय इति।'धातोः' इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तृधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो तृतीयस्याध्यायस्य प्रथमः पादः॥