3-1-99 शकिसहोः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत्
<<शक्ऌ शक्तौ>>,<<षह मर्षणे>> अनयोर्धात्वोर्यत् प्रत्ययो भवति। शक्यम्। सह्यम्॥
शक्यम् । सह्यम् ॥
<<शकिसहोश्च>> - शकिसहोश्च । पञ्चम्यर्थे षष्ठी । आभ्यां यदित्यर्थः । ण्यतोऽपवादः ।
शकिसहोश्च॥ शक्लृ शक्ताविति। उपलक्षणमेतत्,'शक विभाषितो मर्षणे' इत्यस्यापि ग्रहणम्। षह मर्षण इति। ननु'षह शक्यर्थे' इत्यस्यैव परस्मैपदिनोऽननुबन्धकस्य ग्रहणं प्राप्तम्, नैष दोषः; प्रत्ययविधिविषयत्वादननुबन्धकपरिभाषायाः, तस्माद् द्वयोरपि ग्रहणम्। अन्ये तु'कृत्यल्युटो बहुलम्' इति वृत्तिकारोक्तयोरेव ग्रहणमिच्छन्ति॥