3-1-100 गदमदचरयमः च अनुपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत्
<<गद व्यक्तायां वाचि>>,<<मदी हर्षे>>,<<चर गतिभक्षणयोः>>,<<यम उपरमे>> एतेभ्यश्चानुपसर्गेभ्यो यत् प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्ग इति किम्? प्रगाद्यम्। प्रमाद्यम्। यमेःपूर्वेणैव सिद्धेऽनुपसर्गनियमार्थं वचनम्॥ चरेराङि चागुरौ॥ आचर्यो देशः। अगुराविति किम्? आचार्य उपनेता॥
गद्यम् । मद्यम् । चर्यम् ।<!चरेराङि चागुरौ !> (वार्तिकम्) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव ॥<!तेन न तत्र भवेद्विनिमयम्यमिति वार्तिकप्रयोगात् !> (वार्तिकम्) ॥ एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥
<<गदमदचरयमश्चानुपसर्गे>> - गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाण्ण्यदेव । प्रगाद्यमित्यादि । चरेराङिचाऽगुराविति । वार्तिकमिदम् । आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधा' दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह — यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः । तत्फलमाह — सोपसर्गान्मा भूदिति । ननुअनियम्यस्य नाऽयुक्तिः॑ इत्यत्र,त्वया नियम्या ननु दिव्यचक्षा॑ इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह — निपूर्वात्स्यादेवेति । 'य' दिति शेषः । कुत इत्यत आह — तेन न तत्रेति । प्रकारान्तरेण समाधत्ते — नियमे साधुरिति वेति ।यमः समुपनिविषु चे॑ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थः 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः ।
गदमदचरयमश्चानुपसर्गे॥ अनुपसर्गेम्य इति। सूत्रे ठनुपसर्गेऽ इति व्यत्ययेन पञ्चम्यर्थे सप्तमीति भावः। अत एवोपसर्गादन्योऽनुपसर्गस्तस्मिन्ननुपसर्गे उपपद इत्यर्थो न भवति। एवं हि केवलेभ्यो न स्यात्,'वदः सुपि क्यप् च' इत्यत्र सुब्ग्रहणमनर्थकं स्यात्? ठनुपसर्गेऽ इति हि वर्तते तत्र नञिवयुक्तन्यायेयेनोपसर्गसद्दशस्य सुबन्तस्य ग्रहणं भविष्यति। नियमार्थमिति। अनुपसर्गादेव यथा स्यात्सोपसर्गान्मा भूदिति। कथं तर्हि तेन न तत्र भवेद्विनियम्यमिति? प्रमादपाठोऽयम्, विनियाम्यमिति पाठः। एतेन ठिति यत्नोपचर्यम्ऽ इति व्याख्यातम्। चरेराङ् चागुराइविति। सोपसर्गार्थ वचनम्। आचया देश इति गन्तव्य इत्यर्थः। उपनेताउगुरुः॥