कृत्याः

3-1-95 कृत्याः प्राक् ण्वुलः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<ण्वुल्तृचौ>> (३.१.१३३) इति वक्ष्यति। प्रागेतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कृत्यसंज्ञकास्ते वेदितव्याः। तत्रैवोदाहरिष्यामः। कृत्यप्रदेशाः — <<कृत्यैरधिकार्थवचने>> (२.१.३३),<<कृत्यानां कर्तरि वा>> (२.३.७१) इत्येवमादयः॥

Siddhanta Kaumudi

Up

अधिकारोऽयं ण्वुलः प्राक् ॥

Laghu Siddhanta Kaumudi

Up

ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कृत्याः (प्राङ् ण्वुलः)>> - कृत्याः । कृत्यसंज्ञका इत्यर्थः । ततश्चप्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॑,॒अर्हे कृत्यतृचश्च॑,शकि लिङ् चे॑त्यादिषु प्रवर्तते । ण्वुलः प्रागिति । 'ण्वुल्तृचौ' इत्यतः प्रागित्यर्थः । एतच्च भाष्ये स्पष्टम् ।

Padamanjari

Up

कृत्याः प्राङ् ण्वुलः॥ ण्वुलतृचाविति वक्ष्यतीति। रोगाख्यायां ण्वुल् बहुलम्ऽ मित्ययं त्ववधिर्न भवति; ठर्हे कृत्यतृचश्चऽ इति पृथक् तृचो ग्रहणात्। यद्येवम्,'प्राङ् ण्वुलः' इति न वक्तव्यम्,'कृत्याः' इत्येवास्तु, तृज्ग्रहणादेव ज्ञापकात्परतोऽनुवृत्तिर्न भविष्यति, योगापेक्षं च ज्ञापकम्'ण्वुल्तृचौ' इत्यस्माद्योगात्प्राक् कृत्यसञ्ज्ञाधिकार इति? सत्यम्;'कृत्याः' इत्येतावदेव पठितं सूत्रकारेण। वृत्तिकारस्तु, भाष्ये पूर्वपक्षरूपेण पठितं सूत्रे प्रचिक्षेप। विचित्रा हि वृतेः कृतिर्वृत्तिकारेण!'कृत्याः' इति बहुवचनमनुक्तसमुच्चयार्थम्, तेन'केलिमर उपसङ्ख्यानम्' इत्यादि नोपसंख्येयं भवति॥