वाऽसरूपोऽस्त्रियाम्

3-1-94 वा असरूपः अस्त्रियाम् प्रत्ययः परः च आद्युदात्तः च धातोः तत्र कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अस्मिन् धात्वधिकारेऽसमानरूपोऽपवादप्रत्ययो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। <<ण्वुल्तृचौ>> (३.१.१३३) इत्युत्सर्गौ, <<इगुपधज्ञाप्रीकिरःकः>> (३.१.१३५) इत्यपवादः, तद्विषये <<ण्वुल्तृचौ>> (३.१.१३३) अपि भवतः। विक्षेपकः। विक्षेप्ता। विक्षिपः। असरूप इति किम्? <<कर्मण्यण्>> (३.२.१) इत्युत्सर्गः, <<आतोऽनुपसर्गे कः>> (३.२.३) इत्यपवादः, स नित्यं बाधको भवति। गोदः। कम्बलदः। <<नानुबन्धकृतमसारूप्यम्>>। अस्त्रियामिति किम्? <<स्त्रियां क्ति न्>> (३.३.९४) इत्युत्सर्गः, <<अ प्रत्ययात्>> (३.३.१०२) इत्यपवादः, स बाधक एव भवति। चिकीर्षा। जिहीर्षा॥

Siddhanta Kaumudi

Up

परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥

Laghu Siddhanta Kaumudi

Up

अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वाऽसरूपोऽस्त्रियाम्>> - वाऽसरूपोऽरिउआयाम् ।असरूप॑इति छेदः । परिभाषेयमिति । अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः । असरूप इति लिङ्गनिर्देशः । यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते ।वे॑त्यतः प्राक् 'बाधक' इति शेषः । असरूपो वा बाधको भवतीति यावत् । कस्य बाधको वेतयाकाङ्क्षायामुत्सर्गस्येत्यर्थाल्लभ्यते । फलितमाह — अस्मिन् धात्वधिकारे इत्यादिना । स्त्रीशब्दः स्वर्यते । तदाह — स्त्र्यधिकारोक्तं विनेति ।स्त्रियां क्तिन् इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः । स्त्र्यधिकारस्थस्तु असरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधक इतिभावः । 'ण्वुल्तृचौ' इत्युपसर्गः ।इगुपधज्ञाप्रीकिरः कः॑ इत्यपवादः । तद्विषये ण्वुल्तृचवावपि भवतः । विक्षिपः । विक्षेपकः । विक्षेप्ता । असरूप इति किम् । 'कर्मण्यण्' इत्युत्सर्गः । 'आतोऽनुपसर्गे कः' इत्यपवादः । स तु सरूपत्वान्नित्यं बाधक एव । गोदः । कम्बलदः ।नानुबन्धकृतमसारूप्य॑मिति वचनादनुबन्धो न सारूप्यप्रतिबन्धकः । अस्त्रियां किम् । 'स्त्रियां क्तिन्' इत्युत्सर्गः ।अ प्रत्यया॑दिति प्रत्ययान्तद्विहितोऽकारप्रत्ययः, तस्याऽपवादो बाधक एव भवति । चिकीर्षा । व्यावक्रोशी व्याक्रुष्टिरित्यत्र तुकर्म व्यतिहारे णच् स्त्रिया॑मिति णच् क्तिनो बाधको वा भवत्येव ।अस्त्रिया॑मिति निषेधस्तु नास्ति,तस्यणचः स्त्रिया॑मित्यधिकारोक्तत्वाऽभावात् ।

Padamanjari

Up

वाऽसरूपोऽस्त्रियाम्॥ ठसरूपःऽ इति पदच्छेदः, अन्यथा लाधवे विशेषाभावलादसन्देहर्थ'सरूपो' स्त्रियां वाऽ इति ब्रूयात्। अपवादविषयेऽपि केषाञ्चित्कृतां प्रवृत्तिर्यथा स्यादित्येवमर्थमिदं वचनम्। यथोक्तम् - -असरूपस्य वावचनमुत्सर्गस्य बाधकविषये निवृत्यर्थमिति। परिभाषा चेयम्, अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यान्यसरूपस्यापवादस्य विधायकानि शास्त्राणि तच्छेषभूता, तत्र तत्र वचने क्रियमाणे गौरवं स्यादिति साधारणरूपेण परिभाष्यते। तत्र च ठसरूपःऽ इति व्यर्थ कृण्मात्रस्य विकल्पने सर्वस्यैवासरूपत्वाद्यत्किञ्चित्कृदपेक्षया; असरूपपदं चैतत्सापेक्षं प्रतियोगिनि यतोऽत्र भिन्नरूपत्वमसरूपत्वमित्यते। केनचिद्धि किञ्चित्सरूपमसरूपं वा भवति, तत्र केनासरूप इत्यपेक्षायां स्वविधानवेलायां यः स्वस्मिन्विषये प्राप्तः स एव बुद्धिस्थः प्रतियोगी गम्यते, अपवादविधानसमये चोत्सर्गः, तमपि विषयमवागाऋढुअमुढौकमान उपारूढो बुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एवात्रासरूपो विवक्षित इत्याह - असरूपोऽपवादप्रत्यय इति। एवं स्थिते यद्ययमुत्पत्तिविकल्पस्स्याद्, अपवादप्रत्ययो वा भवतीति, ततः स्वविषये कामं विकल्पस्तस्य लभ्यते, न तूत्सर्गः प्रवर्तेत। तत्रातद्विषयो ह्यसौ, उत्सर्गापवादशास्त्रयोर्हि प्रमितिव्यापारे पर्यवसिते पश्चादियमत्रैव प्रदेशेस्थिताऽपवादस्य पक्षे प्रवॄति प्रतिबध्नाति। अपवादशास्त्रेण यः स्वीकृतो विषयस्तद्व्यतिरिक्तविषया सामान्यशास्त्रस्य प्रमितिरित्यपवादस्याप्रवृतावपि नैवोत्सर्गस्य तस्मिन्विषये प्रमितिः प्रवृत्तिर्वोपपद्यते, तद्धितवत्; तद्यथा - दक्षस्यापत्यमत इञि विकल्पिते पक्षेऽण् न भवति, अपि तु वाक्यमेव भवति, तत्कस्य हेतोः?'समर्थानां प्रथमाद्वा' इति तटस्थेन पक्षे प्रवृत्तिर्निरुद्ध्यते, न पुनरेकवाक्यतया प्राप्तिरेव विकल्परूषितेति, तथेहापीति। अपवादाभावपक्षे प्रकृतिरेव कर्त्राद्यभिधानायानुज्ञाता स्याद्, यथाग्निचिदित्यादौ क्विबादिलोपे, तदाह - तत्रोत्पतिर्वा प्रसङ्गो यथा तद्धित इति। तमिममुत्पत्तिविकल्पपक्षे दोषं द्दष्ट्वा बाधकत्वं विकल्प्यत इत्याह - वाबाधको भवतीति। उक्तं च'सिद्धं त्वसरूपबाधकस्य वावचनात्' इति, असरूपो वा बाधको भवतीति वक्तव्यमित्यर्थः। ननु तत्रतत्रोच्यते - यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपर इति, ततश्चासरूपो वेत्युक्ते भवतीत्येवाध्याहारो युक्तः, न पुनर्वा बाधक इति? उच्यते - उत्पत्तिविकल्पस्य प्रयोजनं केवलायाः प्रकृतेः प्रयोगः, केवला च प्रकृतिः स्वार्थमात्रमभिधातुमसमर्था, किं पुनः कर्त्रादिकमभिधास्यति! प्रकृतिप्रत्ययसमुदाये हि प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यामयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति व्यवस्थाप्यते; अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदप्यर्थ गमयति। प्रयोगोऽपि हि तस्या दुर्लभः; परश्चेति नियमात्। तद्धिते त्वनुत्पत्तिपक्षेऽप्युत्सर्गप्रवृत्तिव्यतिरेकेण प्रत्ययान्तरमस्ति षष्ठी, इह तु न तथेति सामर्थ्याद्बहिरङ्गमपि बाधकत्वमपि कल्प्यते। ननु चच शास्त्रं शास्त्रेण बाद्ध्यते, न पुनः कार्य कार्येण, निदानोच्छेदेनैव हि निदानिन उच्छेदः शक्यते कर्तुम्, न हि प्रदीपेऽनुच्छिन्ने तत्प्रकाश उच्छिद्यते, तत्किमुच्यते - अपवादप्रत्यय इति, एवं तु वक्तव्यम् - अपवादशास्त्रमिति? उच्यते - सर्वस्यैवापवादशास्त्रस्य स्वगतमसारूप्यमव्यभिचारीति प्रत्ययद्वारकं तदाश्रयणीयमित्यपवादप्रत्यय इत्युक्तम्। एवम्भूतस्य प्रत्ययस्य विधायकं शास्त्रमित्यर्थः। यद्वा - प्रत्ययस्य बाधकत्वविकल्पसामार्थ्याच्छास्त्रमपि पक्षे बाधकं भविष्यति। अथ वा वृतौ वस्तुमात्रं दर्शितम्; यथा त्वयमर्थ उपपद्यते तथा सूत्रं व्याख्येयम्। तत्रेदं व्याख्यानम् - परिभाषेयमित्युक्तम्, तत्रेक्परिभाषावदियमपि पदमुपस्थापयति - अस्मिन्धात्वधिकारे यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते, स्त्र्यधिकारे तु नेति। किं कृतं भवति?'ददातिदधात्योर्विभाषा' इत्यादिवत् प्रमितिरेव विकल्परूषिता भवति, ततस्तद्वदेवोत्सर्गस्य प्रवृत्तिसिद्विरिति। अथ ठसरूप उत्सर्गप्रत्ययोऽपवादविषये वा भवतिऽ इति विज्ञायमाने को दोषः? न खलु कश्चिद्दोषः; अपवादविकल्पे प्राप्ते विभाषा, उत्सर्गविकल्पे त्वप्राप्तविभाषेति, किन्तु प्रतियोग्यपेक्षमसरूपपदमप्यपवादमेव गोचरयतीत्युक्तम्। ठस्त्रियाम्ऽ इत्यत्र पक्षत्रयं सम्भवति - अभिधेयसप्तमी वा स्यात् - स्त्रियामभिधेयायां वासरूपो न भवतीति, स्त्रियामित्येव वा विहितस्यासरूपस्य निषेधः स्यात् - स्त्रियामित्युच्चार्य ये विधीयन्ते ते नेति, स्त्रीग्रहणं वा स्वर्यते स्वरितेनाधिकारावगतिर्भवतीति - स्त्रियां क्तनिन्नित्यस्मिन्नधिकारे नेति। तत्राद्ये पक्षे विक्षिपा, विक्षोपिका, विक्षेप्तेति कविषये ण्वुल्तृचौ न स्याताम्। द्वितीये तु'कर्मव्यतिहारे णच् स्त्रियाम्' व्यावक्रोशी, व्यावक्रुष्टिरिति णयो विषये क्तिन् न स्यात्, द्वयोरपि स्त्रियामित्युच्चार्य विधानादिति, ममाद्ययोः पक्षयोर्दोषं द्दष्ट्वा तृतीयं पक्षमाश्रित्याह - स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वेति। केचिदाहुः - अपवादप्रत्ययं वर्जियित्वेति वक्तव्ये प्रत्ययं वर्जयित्वेति वचनं प्रत्ययमात्रपरिग्रहार्थम्, तेनोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशिनोरयं प्रतिपेधः। किं सिद्धं भवति? आसना, आस्या - -स्त्र्यधिकारविहितेनापि युचापवादेन ऋहलोर्ण्यतः समा वेशः सिद्धो भवति। घञस्तु क्तिन्नादिभिरनभिधानादसमावेश इति। अन्ये तु - अपवादो वा बाधको भवतीति प्रकृतत्वात्स एवात्र प्रत्यय इति व्याचक्षते, तेन घञः क्तिन्नादिभिरसमावेशः। आस्येत्यत्र कृत्यल्युटो बहुलमिति ण्यदिति। ण्वुल्तृचावुत्सर्गाविति। चावुत्सर्गाविति। धातुमात्रे विधानात्। इगुपघज्ञाप्रीकिरः क इत्यपवाद इति। धातुविशेषे विधानात्। किं पुनः प्रयोगगतमसारूप्यम्? आहोश्विदुपदेशगतम्? किं चातः? प्रयोगे लादेशेषु प्रतिषेधः - ह्यएऽपचदित्यत्र लुङपि प्राप्नोति, प्रयोगे ह्यसरूपत्वात्, लङ्यनच्कस्तकारः प्रत्ययः लुङ् इपाक्षीदितीच्छब्दः; श्वः कर्तेत्यत्र लृडपि प्राप्नोति? ज्ञापकात्सिद्धम्, यदयम्'हशश्वतोर्लङ् च' इति लिड्विषये लण्ंó शास्ति, तज् ज्ञापयति - न लादेशेषु वासरूपविधिरिति। एवमपि ग्रामणीः, ग्रामनाय इति क्विबादिविषयेऽणादयो न स्युः, न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानातेषाम्। तस्मादुपदेशगतमसारूप्यम्। यद्येवम्, अनुबन्धभिन्नेषु विभाषाप्रसङ्गः, काणोरपि ह्युपदेशे भिन्नं रूपम्, प्रयोगे तु समानम्, तत्राह - नानुबन्धकृतमिति। अनुबन्धानामनेकान्तत्वातत्कृतमसारूप्यं नाश्रीयते, तथा च ठुदीयां माङ्ःऽ इति श्रूयमाणेऽपि ङ्कारे तस्यानेकान्तत्वादव्याहतमेजन्तत्वमित्यात्वं प्रयुक्तम्।'ददातिदधात्योर्विभाषा' इति विभाषाग्रहणं च लिङ्गमस्यार्थस्य; अन्यथाऽनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन! इह क्तल्युट्तुमुन्खलर्थेषु वासरूपवधिः प्राप्नोति। हसितं छात्रस्य शोभनं हसनं छात्रस्य, अत्र क्तल्युडविषये घञपि प्राप्नोति। तुमुन - इच्छति भोक्तुम्, अत्र ठिच्छार्थेषु लिङ्लोटौऽ इति लोट् प्राप्नोति, तुमुना च बाध इष्यते, लिङ् तु'लिङ् च' इति वचनाद्भवात्येव। यद्येवम्, अस्मादेव नियमाल्लोडपि न भविष्यति। कलर्थ - आतो युच्ऽ ईषत्पानः, अत्र खलपि प्राप्नोति। ननु स्त्र्यधिकारे तावदस्त्रियामिति प्रतिषेधादस्याप्रवृत्तिः परस्तादपि विच्छिन्नत्वादेव न भविष्यति? स्यादेतदेवम्, यद्ययमधिकारः स्यात्, परिभाषा त्वेषेत्युक्तम्। इष्यते च स्त्र्यधिकारादूर्ध्वमपि वासरूपविधिः - -आसित्वा भुङ्क्ते,आस्यते भोक्तुमित्यपि यथा स्याद्; अन्यथा भोजनार्थत्वादासनस्य पौर्वकाल्यमवगम्यते तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययस्तत्रैव च लकार इति समानविषयत्वाद्वाध्यबाधकभावः स्यात्। तथा कालो भोक्तुम्, कालो भोजनस्य - मुमुना ल्युटो बाधः स्यात्। तस्मात् स्त्र्यधिकारस्य परस्तादपि वासरूपविधिरेषितव्यः, ठर्हे कृत्यतृचश्चऽ इत्यत्र कृत्यतृज्ग्रहणं ज्ञापकम् - स्त्र्यधिकारस्य परस्तादनित्यैषा परिभाषेति। तस्मात् क्तल्युट्तुमुन्खलर्थेषु प्रतिषेधो।वक्तव्य एव॥