3-1-38 उषविदजागृभ्योःअन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम् लिटि
index: 3.1.38 sutra: उषविदजागृभ्योऽन्यतरस्याम्
उष दाहे, विद ज्ञाने, जगृ निद्राक्षये, एतेभ्यो लिटि परतोऽन्यतरस्यामाम् प्रत्ययो भवति। ओषाञ्चकार, उवोष। विदाञ्चकार, विवेद। जागराञ्चकार, जजागार। विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति।
index: 3.1.38 sutra: उषविदजागृभ्योऽन्यतरस्याम्
एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ ।{$ {!697 जिषु!} {!698 विषु!} {!699 मिषु!} सेचने $}। जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् ।{$ {!700 पुष!} पुष्टौ$} । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् ।{$ {!701 श्रिषु!} {!702 श्लिषु!} {!703 प्रुषु!} {!704 प्लुषु!} दाहे$} । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष ।{$ {!705 पृषु!} {!706 वृषु!} {!707 मृषु!} सेचने$} । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् ।{$ {!708 घृषु!} संघर्षे$} ।{$ {!709 हृषु!} अलीके$} ।{$ {!710 तुस!} {!711 ह्रस!} {!712 ह्लस!} {!713 रस!} शब्दे$} । तुतोस । जह्नास । जह्लास । ररास ।{$ {!714 लस!} श्लेषणक्रीडनयोः $}।{$ {!715 घसॢ!} अदने$} । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् <{SK2424}> इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥
index: 3.1.38 sutra: उषविदजागृभ्योऽन्यतरस्याम्
एभ्यो लिटि आम्वा स्यात्। विदेरन्तत्वप्रतिज्ञानादामि न गुणः। विदाञ्चकार, विवेद। वेदिता। वेदिष्यति॥
index: 3.1.38 sutra: उषविदजागृभ्योऽन्यतरस्याम्
उषविदजागृभ्योऽन्यतरस्याम् - उषविद । 'कास्प्रत्यया' दित्यत आम् लिटीत्यनुवर्तते । तदाह — एभ्यो लिटीति । आमभावपक्षे आह - उवोषेति । 'अभ्यासस्याऽसवर्णे' इति उवङादेशः । जिषु विषु मिषु सेचन इति । द्वितीयो दन्त्योष्ठआदिः । थलि वसि मसि च विशेषमाह — क्रादिनियमादिडिति । विवेषिथेति । अजन्ताकारवत्त्वाऽभावेन भारद्वाजनियमाऽप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट् । वेष्टेति । तासि ष्टुत्वेन तकारस्य टः । वेक्ष्यतीति ।षढो॑रिति षस्य कः, सस्य षः । अविक्षदिति ।शल इगुपधा॑दिति क्सः, षस्य कः, सस्य षः, कित्त्वान्न गुणः । पुषधातु सेडिति मत्वाह — पोषितेति । अपोषीदिति ।नेटी॑ति वृद्धिनिषेधः । नन्विट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह -अनिट्केष्विति । अत इति । सेट्कत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अङ्कुतो नेत्यत आह — अङ्विधाविति । एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति । पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति । 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः । द्वयोग्र्रहणमिति । भौवादिकदैवादिकयोरित्यर्थः । स्वोक्तीति । 'श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य ह्मषुपर्यन्ता ऋदुपधाः । अलीकं — मिथ्याभवनं, मिथ्योक्तिर्वा । तुस ह्यसेत्यारभ्य णश गतावित्यतः प्राक् सकारान्ताः । घस्लृ धातुरनिट्कः । अयमिति । घस्लृधातुः, सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत आह — लिटीति । यद्ययं सार्वत्रिकः स्यात्तदा लिटपि प्रयुज्येत ततश्च 'अद भक्षणे' इति धातोर्लिटन्यतरस्यामिति घस्लृभावविधिव्र्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह — ततश्चेति । यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । ततर् तावल्लिङ्गं दर्शयति — अत्रैवेति । भ्वादिगणे अत्रैव क्रमे अस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः । न च धातुसंज्ञार्थः पाठ इति शङ्क्यं, द्युत दीप्तावित्यतः प्राक् । [॒अनुदात्तेत इत्यतोग्रे॑[ पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयथ्र्यादिति भावः । लृदित्करणमङीति ।प्रयोगे लिङ्ग॑मिति शेषः । अनिट्कारिकास्विति । अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति — क्मरचीति । 'सृघस्यदः क्मरः' जित्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति । लटि तसाद्युपलक्षममिदम् । लिटि अस्य प्रयोगाऽभावाल्लुटदाहरति — घस्तेति ।
index: 3.1.38 sutra: उषविदजागृभ्योऽन्यतरस्याम्
उषविदजागृभ्योऽन्यतरस्याम्॥ विद ज्ञाने इति। सताविचारणार्थयोस्त्वात्मनेपदिनोर्लाभार्थस्य चोभयपदिनो ग्रहणं न भवति, परस्मैपदिभ्यामुषिजागृभ्यां जागर्तिनाऽऽदादिकेन साहचर्यादिति भावः। विवेदेति। आम्प्रत्ययसन्नियोगेनादन्तत्वप्रतिज्ञानादत्र गुणो भवत्येव। अत एवाह - विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवतीति॥