3-1-149 प्रुसृल्वः समभिहारे वुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
॒प्रु सृ लू इत्येतेभ्यो धातुभ्यः समभिहारे वुन् प्रत्ययो भवति। प्रवकः। सरकः। लवकः। समभिहारग्रहणेनात्र साधुकारित्वं लक्ष्यते। साधुकारिणि वुन्विधानात् सकृदपि यः सुष्ठु करोति, तत्र भवति। बहुशो यो दुष्टं करोति, तत्र न भवति॥
समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥
<<प्रुसृल्वः समभिहारे वुन्>> - प्रुसृल्वः । लक्ष्यते इति । एतच्च भाष्ये स्पषमट् । प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी ।
प्रुसृल्वः समभिहारे वुन्॥'प्रुसृल्व' इति पञ्चम्याः स्थाने जस्, ठोस्सुपिऽ इति यणादेशः। साधुकारित्वं लक्ष्यत इति। प्रायः सहचरित्वात् पुनः पुनरनुष्ठानं समभिहारः, यश्च यां क्रियां पुनः पुनरनुतिष्ठति तस्य प्रायेण कौशलमुपजायते, अतः प्रायः साहचर्यात्साधुकारित्वं लक्ष्यते, लक्षणया तत्र वर्तत इत्यर्थः, तेन किं सिद्धं भवतीत्याह - सकृदपीति॥