हश्च व्रीहिकालयोः

3-1-148 हः च व्रीहिकालयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् ण्युट्

Kashika

Up

index: 3.1.148 sutra: हश्च व्रीहिकालयोः


चकारेण ण्युडनुकृष्यते । जहातेर्जिहातेश्च धातोर्ण्युट् प्रत्ययो भवति, व्रीहौ काले च कर्तरि । हायना नाम व्रीहयः - जहत्युदकमिति कृत्वा । काले - हायनः, संवत्सरः, जिहीते भावानिति कृत्वा ।

Siddhanta Kaumudi

Up

index: 3.1.148 sutra: हश्च व्रीहिकालयोः


हाको हाङश्च ण्युट् स्यात् व्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥

Balamanorama

Up

index: 3.1.148 sutra: हश्च व्रीहिकालयोः


हश्च व्रीहिकालयोः - हश्च । 'ओ हाक् त्यागे' इत्यस्य 'ओ हाङ् गतौ' इत्यस्य च 'ह' इति पञ्चम्यन्तम् । तदाह — हाको हाङश्चेति ।

Padamanjari

Up

index: 3.1.148 sutra: हश्च व्रीहिकालयोः


हश्च व्रीहिकालयोः॥ जहातेरिति। ठोहाक् त्यागेऽ। जिहातेरिति। ठोहाङ्गतौऽ। प्रायेण जिहीतेरिति पाठः, स त्वयुक्तस्तिपः पित्वादीत्वाभावात्। जहातेः ककारोऽत्र सामान्यग्रहणार्थः, अन्यथा एकानुबन्धकत्वादस्यैव स्यात्। अथ हाङ् इत्युच्येत, एवमपि तस्यग्रहणं न स्यात्, तस्माद् द्वयोरपि ग्रहणम्।'ब्रीहिकालयोः' इति कर्तुर्विशेषणम्, नोपपदम्; त्रिचतुर्भ्यो हायनस्य'दामहायनान्ताच्च' इति वचनादिति मत्वाह - व्रीहौ काले च कर्तरीति। जहत्युदकमिति। कृत्वेति। व्रीहौ हायनशब्दस्य प्रवृत्तिनिमितं दर्शितम्। जाङ्गलदेशोद्भवाः केचिद् व्रीहयो हायना इत्याहुः। जिहीते भावानिति। भावाः पदार्थास्तान् जिहीते गच्छति परिच्छेदकत्वेन व्याप्नोतीत्यर्थः॥