ण्युट् च

3-1-147 ण्युट् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् शिल्पिनि गः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चकारेण ग इत्यनुकृष्यते। गायतेर्ण्युट् प्रत्ययो भवति शिल्पिनि कर्तरि। गायनः। गायनी। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

Up

गायनः । टित्त्वाद्गायनी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ण्युट् च>> - ण्युट् च । चकार उक्तसमुच्चये । गायतेर्ण्युट्, थकन् च शिल्पिनि कर्तरि । गायन इति । आत्वे युक् । 'आदेचः' इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात् । यद्यपिगस्थकन्- ण्युट् चे॑त्येकमेव सूत्रमुचितम्, तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः ।

Padamanjari

Up

ण्युट् च॥ णकारो युगर्थः, टकारो ङीबर्थः। योगविभाग उतरार्थ इति। उतरत्र ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति॥