गस्थकन्

3-1-146 गः थकन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् शिल्पिनि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गायतेस्थकन् प्रत्ययो भवति शिल्पिनि कर्तरि। गाथकः। गाथिका॥

Siddhanta Kaumudi

Up

गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गस्थकन्>> - गस्थकन् ।गः - थक्न्निति च्छेदः । गैधातोः कृतात्वस्य 'ग' इति पञ्चम्यन्तम् । तदाह — गायतेरिति ।

Padamanjari

Up

गस्थकन्॥ गायतेरिति।'कै गै शब्दे' 'गामादाग्रहणे ष्वविशेषः' इति'गाङ् गतौ' इत्यस्यापि ग्रहणं प्राप्तम्, अनभिधानान्न भवति। थकन्प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः॥