गेहे कः

3-1-144 गेहे कः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् ग्रहः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रहेर्धातोः कप्रत्ययो भवति गेहे कर्तरि। गृहं वेश्म। तात्स्थ्याद् दाराश्च। गृह्णन्तीति गृहा दाराः। गृहाणि वेश्मानि॥

Siddhanta Kaumudi

Up

गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥

Laghu Siddhanta Kaumudi

Up

गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गेहे कः>> - गेहे कः । 'विभाषा ग्रहः' इत्यस्यापवादः । गृहमिति ।ग्रहिज्ये॑ति संप्रसारणं, पूर्वरूपं च॥ ननु 'गृहा दारा' इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह — तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिक इति भावः । गृहा दारा इति । 'दारेष्वपि गृहाः' इत्यमरः ।

Padamanjari

Up

गेहे कः॥ गेह इति। प्रत्ययाथंस्य कर्तुर्विशेषणम्, नोपपदम्;'गृहपतिना संयुक्तः' इति निर्देशादित्याह - गेहे कर्तरीति। तास्त्थ्याद्दाराश्चेति। गेहमित्यपेक्ष्यते, तेन गौणस्यापि गेहस्य ग्रहणमिति दर्शयति। तच्च तन्त्रावृत्योरन्यत राश्रयणेन लभ्यते, तत्र वेश्मनि पुंल्लिङ्गबहुवचनान्त एव - गृहान्ह दाहको भवति, गृहानुतरया संकाशयते, गृहान्गच्छ, गृहानहं सुमनसः प्रपद्य इति। नपुंसकलिङ्गोऽभिधेयवचनः, एवं दारेष्वपि। अन्ये तु - गृहशब्दो वेश्मन्येव मुख्यः, दारेषु गौण इति वदन्ति, तथा'न गृहं गृहमित्याहुर्गृ हिणी गृहमुच्यते' इति वेश्मन्येव मुख्यतां दर्शयन्ति। यथा वृत्तिकारेणोक्तं तथा दारेष्वपि मुख्य एवेति लक्ष्यते॥