दुन्योरनुपसर्गे

3-1-142 दुन्योः अनुपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दुनोतेर्नयतेश्चानुपसर्गे णप्रत्ययो भवति। दुनोतीति दावः। नयतीति नायः। अनुपसर्ग इति किम्? प्रदवः। प्रणयः॥

Siddhanta Kaumudi

Up

णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दुन्योरनुपसर्गे>> - दुन्योरनुपसर्गे । दुनोतेर्नयतेश्चेत्यर्थः ।दव॑शब्दं साधयितुमाह — नी साहचर्यादिति । नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् 'टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । 'दु द्रु गतौ' इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः ।

Padamanjari

Up

दुन्योरनुपसर्गे॥ दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा ठृदोरप्ऽ इत्यबन्तः॥