3-1-140 ज्वलितिकसन्तेभ्यः णः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनुपसर्गात् विभाषा
इतिशब्द आद्यर्थः। <<ज्वल दीप्तौ>> इत्येवमादिभ्यो धातुभ्यः <<कस गतौ>> इत्येवमन्तेभ्यो विभाषा णप्रत्ययो भवति। अचोऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गादित्येव — प्रज्वलः॥ तनोतेर्णस्योपसंख्यानं कर्तव्यम्॥ अवतनोतीत्यवतानः॥
इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुपसर्गादित्येव । उज्ज्वलः ।<!तनोतेरुपसंख्यानम् !> (वार्तिकम्) ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥
<<ज्वलितिकसन्तेभ्यो णः>> - ज्वलिति । आद्यर्थ इति । तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः । तदाह — ज्वलादिभ्य इति ।ज्वल दीप्तौ इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति.विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति । 'इगुपधेभ्यः कः' इत्यपि बोध्यम् । उपसङ्ख्यानमिति ।णस्ये॑ति शेषः । न संबध्यते इति । 'अवतानः' इत्येव भाष्ये उदाहरणादिति भावः ।
ज्वलितिकसन्तेभ्यो णः॥ इतिशब्द आद्यर्थ इति। अनेकार्थत्वान्निपातानाम् ठुच्चावचेष्वर्थेषु निपतन्तीति निपाताःऽ इति निरुक्तकारो निपातशब्दं निराह। ज्वलितीत्यविभक्तिको निर्द्देशः, ज्वलादिभ्य इत्यर्थः। कसिरन्ते येषां ते कसन्ताः, तत्र ये कसमधीत्य वृदिति पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ननु च'ज्वल दीप्तौ' इति द्विः पठ।ल्ते - घटादिषु, परस्ताच्च; तेषामसत्यस्मिन्विशेषणे सन्देहः स्यात् - किं पूर्वो ज्वलिरादिः? उत पर इति? अतः कसः समीपभूतेभ्यो ज्वलादिभ्य इति विशेषणमर्थवत्, नैतत्सुष्ठूअच्यते; यद्यन्तशब्दः समीपवचनः, बहुव्रोहौ तत्पुरुषे च कसेर्ग्रहणं न प्राप्नोति, पूर्वत्र ज्वलतावादावभिप्रेते तदनन्तर एव धातुरुपादीयेत; परोपदेशेनैव ज्वलतेर्ग्रहणसिद्धेः। घटादिपाठश्च मित्संज्ञायां चरितार्थः, इतरस्त्वचरितार्थ इति स एवादिर्भविष्यति। अचोऽपवाद इति। तस्यापि सर्वधातुविषयत्वादिति भावः।'भ्रमु चलने' इत्यस्य ज्वलादिपाठः किमर्थः,यावता पचाद्यचि भ्रम इति सिद्धम्, णेऽप्येतदेव रूपम्,'नोदातोपदेशस्य' इति पृद्धिप्रतिषेधात्? इहाभ्रम इति ठच्कावशक्तौऽ इति स्वरो मा भूदिति॥