3-1-139 ददातिदधात्योः विभाषा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् शः अनुपसर्गात्
index: 3.1.139 sutra: ददातिदधात्योर्विभाषा
दाञो धाञश्च विभाषा शप्रत्ययो भवति। णस्य अपवादः। ददः, दायः। दधः, धायः। अनुपसर्गातित्येव, प्रदः, प्रधः।
index: 3.1.139 sutra: ददातिदधात्योर्विभाषा
शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥
index: 3.1.139 sutra: ददातिदधात्योर्विभाषा
ददातिदधात्योर्विभाषा - ददातिदधात्योर्विभाषा । दाञ्, धाञ्, आभ्यां शो वा स्यात् । ददः दध इति । शः, शप्, श्लुः । 'श्लौ' इति द्वित्वम् । आतो लोपः । वक्ष्यमाण इति । 'स्याद्व्यदे' त्यनेनेति भावः । प्रदः प्रध इति । 'आतश्चोपसर्गे' इति कः ।
index: 3.1.139 sutra: ददातिदधात्योर्विभाषा
ददातिदधात्योर्विभाषा॥ ददः, दध इति। शपः श्लुः, द्विर्वचनम्,'श्नाभ्यस्तयोरातः' इत्याकारलोपः।'दद दाने' 'दध धारणे' इत्येताभ्यामचि कृते ददः दध इति सिद्धम्, दाधाभ्यामपि णे कृते दायो धाय इति, इदं तु वचनं स्वरार्थम् - अददः अदध इति ठच्कावशक्तौऽ इत्यन्तोदात्वं मा भूत्, नञ्स्वर एव यथा स्यादिति॥