पाघ्राध्माधेट्दृशः शः

3-1-137 पाघ्राध्माधेट्दृशः शः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् उपसर्गे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पादिभ्यो धातुभ्य उपसर्ग उपपदे शप्रत्ययो भवति। उत्पिबः। विपिबः। उज्जिघ्रः। विजिघ्रः। उद्धमः। विधमः। उद्धयः। विधयः। उत्पश्यः। विपश्यः। उपसर्ग इति केचिन्नानुवर्तयन्ति। पश्यतीति पश्यः (छा०उप० ७.२६.२)॥ जिघ्रतेः संज्ञायां प्रतिषेधो वक्तव्यः॥ व्याघ्रः॥

Siddhanta Kaumudi

Up

पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः ॥<!घ्रः संज्ञायां न !> (वार्तिकम्) ॥ व्याघ्रादिभिः - <{SK735}> इति निर्देशात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पाघ्राध्माधेट्दृशः शः>> - प्राघ्रा । अत्रलुग्विकरणाऽलुग्विकरणयोरलुगविकरणस्ये ग्रहण॑ मिति मत्वाऽऽह — पिबतीति पिब इति । पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वदातुकत्वात्पाघ्राध्मे॑ति पिबादेशः । स चाऽदन्त इत्युक्तम् । शप् । पररूपम् । जिघ्र इति ।प्राघ्रे॑ति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमार्देशः । धय इति । धेटः शः, शप्, अयादेशः, पररूपमिति भावः । धया कन्येति । अत्र धेट्धातुष्टित् । स अदन्तो न भवति, यस्त्वदन्तो धयशब्दः, स न टित्, अतोऽत्रटिड्ढाण॑ञिति न ङीबिति भावः । धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् । स्तनन्धयीतीति । स्तनशब्दे उपपदे धेट्धातोःनासिकास्तनयो॑रिति खशि कृतेखत्यनव्ययस्ये॑ति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथाटिड्ढाम॑ञिति ङीप्, तथा धया कन्येत्यत्रापि ङीप् प्राप्तः, स ङीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तुडिड्ढाण॑ञिति सूत्रे टिदाद्यवयवाऽकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम् । नच टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दान्ङीबिति वाच्यं, धया कन्येत्यत्रापि ङीप्प्रसङ्गात्, खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाऽभावात् । त्समात्स्तनन्धयीत्यप्रामाणिकमेव । तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम्, ङीप्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादिति शब्देन्दुशेखरे स्थितम् । दृश उदाहरति — पश्य इति ।पाघ्रे॑ति पश्यादेशः । घ्रः संज्ञायां नेति । घ्राधातोः संज्ञायां शो नेत्यर्थः । कुत इत्यत आह — व्याघ्रादिभिरिति । अन्यथाव्याजिघ्रादिभि॑रिति निर्दिशेदिति भावः ।

Padamanjari

Up

पाघ्राध्माधेट्द्दशः शः॥'पा पाने' 'घ्रा गन्धोपदाने' 'ध्मा शब्दाग्निसंयोगयोः' 'धेट् पाने' 'द्दशिर्प्रेक्षणे' 'पा रक्षणे' इत्यस्य तु लुग्विकरणत्वादग्रहणम्। उत्पिब इत्यादि। पाघ्रादिसूत्रेण यथायोगं पिबादय आदेशाः। व्याघ्र इति। अत्र ठातश्चोपसर्गेऽ इति क एव भवति; अत्र च'व्याघ्रादिभिः' इति वचनं लिङ्गम्॥