आतश्चोपसर्गे

3-1-136 आतः च उपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आकारान्तेभ्यो धातुभ्य उपसर्ग उपपदे कप्रत्ययो भवति। णस्यापवादः। प्रस्थः। सुग्लः। सुम्लः॥

Siddhanta Kaumudi

Up

कः स्यात् ।श्याद्व्यधा - <{SK2903}> इति णस्यापवादः । सुग्लः । प्रज्ञः ॥

Laghu Siddhanta Kaumudi

Up

प्रज्ञः। सुग्लः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आतश्चोपसर्गे>> - आतश्चोपसर्गे । कः स्यादिति । शेषपूरणम् । उपसर्गे उपपदे आदन्ताद्धातोः कः स्यादिति फलति । णस्यापवाद इति । तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वादिति भावः । सुग्ल इति । ग्लैधातोः 'आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः । प्रज्ञ इति । ज्ञाधातोरातो लोपः ।

Padamanjari

Up