3-1-135 इगुपधज्ञाप्रीकिरः कः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
इगुपधेभ्यो जानातेः प्रीणातेः किरतेश्च कप्रत्ययो भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानातीति ज्ञः। प्रीणातीति प्रियः। किरतीति किरः। देवसेवमेषादयः पचादौ पठितव्याः॥
एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥
<<इगुपधज्ञाप्रीकिरः कः>> - इगुपधज्ञा । 'कृ विक्षेपे' इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम् । इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी । कित्त्वं गुणनिषेधार्थम् । ज्ञ इति । आतो लोपः । प्रिय इति । प्रीञ् के इयङ् । किर इति । कृधातोः कप्रत्यये इत्त्वे रपरत्वम् ।
इगुपधज्ञाप्रीकिरः कः॥ इगुपधादीनां समाहारद्वन्द्वे नपुंसकत्वेन ह्रस्वप्रसङ्गदितरेतरयोगे द्वन्द्वः, व्यत्ययेन भ्यसः पञ्चम्येकवचनम्। तत्र कृशब्दस्य धात्वनुकरणत्वात्प्रकृतिवदनुकरणम्, विभक्तावित्वम्। ज्ञ इति। ठातो लोप इटि चऽ प्रिय इति।'प्रीञ् तर्पणे' ,इयङदेशः। किर इति।'कृ विक्षेपे' ,ठृत इद्धातोःऽ। पचादिषु द्रष्टव्या इति यद्यप्यजपि तृजादिवत्सर्वधातुभ्यो भवति, तथाप्यपवादबाधनार्थमेते पचादिष्ववश्यं पाठ।ल इत्यर्थः॥