चित्याग्निचित्ये च

3-1-132 चित्याग्निचित्ये च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः

Kashika

Up

index: 3.1.132 sutra: चित्याग्निचित्ये च


चित्यशब्दोऽग्निचित्याशब्दश्च निपात्येते। नीयतेऽसौ चित्योऽग्निः। अग्निचयनम् एव अग्निचित्या। भावे यकरप्रत्ययः तुक् च। तेन अनतोदात्तत्वं भवति। अग्नावित्येव। चेयमन्यत्।

Siddhanta Kaumudi

Up

index: 3.1.132 sutra: चित्याग्निचित्ये च


चीयतेऽसौ चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च <{SK2817}> । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा माभूदिति पुनः कृत्यविधिः स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ।अर्हे कृत्यतृचश्च <{SK2822}> । स्तोतुमर्हः स्तुत्यः, स्तुतिकर्म । स्तोता, स्तुतिकर्ता । लिङा बाधा माभूदिति कृत्यतृचोर्विधिः ॥

Balamanorama

Up

index: 3.1.132 sutra: चित्याग्निचित्ये च


चित्याग्निचित्ये च - चित्याग्निचित्ये च । चित्यश्च अग्निचित्या चेति द्वन्द्वः । अग्नौ निपात्येते । चित्योऽग्निरिति । कर्मणि ण्यत्,तुकच निपात्यते । अग्नेश्चयमिति । अग्निशब्दे षष्ठन्ते उपपदे चिणो ण्यत्,तुक् च । स्त्रीत्वं लोकात् ।प्रैषातिसर्गे॑ति व्याख्यातमपि स्मार्यते । गम्यमिति ।पोरदुपधा॑दिति ण्यदपवादः क्यप् । ननु सामान्येन बावकर्मणोर्विहितानां कृत्यानां प्रैषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिव्र्यर्थ इत्यत कृत्यानां प्रेषाद्यभावे भावकर्मणोश्चरितार्थत्वात् । अतः प्रैषादिषु कृत्यानां लोटा कृत्यानां बाधनिवृत्त्ये पुनः कृत्यविधिरित्यर्थः । ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह — स्त्र्यधिकारादूध्र्वमिति ।स्त्रियां क्ति॑न्नित्यत ऊध्र्वमित्यर्थः ।प्राक् स्त्रिया वासरूपविधिः॑ इति भाष्यम् । ननु स्त्र्यधिकारादूध्र्वं वाऽसरूपवदेरप्रवृत्तौस्त्रियां क्ति॑न्निति सामान्यविहितस्य कित्नः 'षिद्भिदादिभ्योऽभि' ति विशेषविहितेन नित्यबाधः स्यात्, ततः — क्षमा क्षान्ति, भिदा भित्तिरित्यादि न स्यादित्यत आह — क्वचिन्नेति ।क्वचि॑दित्यस्याऽनिर्धारणादाह — तेनेति । सिद्धमिति । एषु वासरूपविधित्यत्र सङ्कोचेति भावः । अत्र व्याख्यानमेव शरणम् । अर्हे कृत्यतृचश्चेति । प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते ।लिङ्यदी॑त्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक् । ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्र्यर्थ इत्यत आह — लिङा बाधेति ।अर्हे चे॑त्येतावत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात्, तथा च अर्हे कृत्यतृचोर्विधिर्न स्यात्, अर्हे विशेषविहितेन लिङा बाधात्, अनर्हे कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूर्द्ध्वं न प्रवर्तते इत्युक्तमेव । अतो लिङा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः ।

Padamanjari

Up

index: 3.1.132 sutra: चित्याग्निचित्ये च


चित्याग्निचित्ये च॥ चित्योऽग्निरिति। कर्मणि यदपवादः क्यब् निपात्यते, तेनाद्यौदातत्वं भवति। भावे यकारप्रत्यय इति। किमर्थ पुनरत्रापि क्यबेव न निपातितः, एवं हि तुग निपात्यो न भवति, तत्राह - तेनान्तोदातत्वं भवतीति। अग्नावित्येवेति। तच्च चित्यशब्दस्यैव विशेषणार्थम्, नाग्निचित्याशब्दस्य; तस्य भावे निपातितत्वात्। तदेतद्दर्शितम् - चेयमन्यदिति॥