3-1-131 अग्नौ परिचाय्योपचाय्यसमूह्याः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्
परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्तेऽग्नावभिधेये। परिपूर्वाद् उपपूर्वाच्च चिनोतेर्ण्यदायादेशौ निपात्येते। परिचा॒य्य॑म् (तै०सं० ५.४.११.३)। उपचा॒य्यः॑ (मै०सं० ३.४.७)। संपूर्वाद् वहेः संप्रसारणं दीर्घत्वं च निपात्यते। स॒मू॒ह्यं॑ चिन्वीत प॒शुका॑मः (तै०सं० ५.४.११.२)। अग्नाविति किम्? परिचेयम्। उपचेयम्। संवाह्यम्॥
अग्निधारणार्थे स्थलविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥
<<अग्नौ परिचाय्योपचाय्यसमूह्याः>> - अग्नौपरिचाय्य । अग्नौ गम्ये — परिचाय्य, उपचाय्य, समूह्र एते निपात्यन्ते । अग्निशब्द इष्टकारचित्तस्थण्डिलविशेषे वर्तते, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दांसी तस्मादग्निरुच्यतेऽथो इयं वा अगनिर्वैआआनरो यन्मृदा चिनोति तस्मादग्निरुच्यते॑ इति वाक्यशेषाच्च । तदाह — अग्निधारणेति । तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्णि ण्यत्, आयादेशश्च निपात्यते । संपूर्वस्य वहेस्तु कर्मणि ण्यति संप्रसारणं, दीर्घश्च निपात्यते ।समूह्रं चिन्वीत पशुकामः, परिचाय्यंचिन्वीत ग्रामकामः॑इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्रौप्रसिद्धौ । उपचाय्यस्त्वग्निःक्वचिच्छाखायामन्वेषणीयः ।
अग्नी परिचाय्योपचाय्यसमूह्यः॥ अग्नाविति। न ज्वलने, किं तर्हि? तदर्थैष्टकाचयनविशेषे; तत्रैव रूढत्वात्। इह संपूर्वात् ठूह वितर्केअ, इत्यस्मादनेकार्थत्वाद्वहेरर्थे वर्तमानाद्धलन्तत्वाद् ण्यति समूह्यमिति सिद्धम्। तथा च -'समूह्यं चिन्वीत पशुकामः पशवो वै पुरुषः पशूनेवास्य तत्समूहति' इति वह्यर्थेनोहिना ब्राह्मणे समूह्यशब्दो निरुक्तः॥