3-1-130 क्रतौ कुण्डपाय्यसञ्चाय्यौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्
कुण्डपाय्य संचाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत् प्रत्ययो निपात्यते युक् च। कुण्डेन पीयतेऽस्मिन् सोम इति कुण्ड॒पाय्यः॑ (ऋ० ८.१७.१३) क्रतुः। <<यतोऽनावः>> (६.१.२१३) इति स्वरः। संपूर्वाच्चिनोतेर्ण्यदायादेशौ निपात्येते। संचीयतेऽस्मिन् सोम इति संचाय्यः क्रतुः। क्रताविति किम्? कुण्डपानम्। संचयः॥
कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥
<<क्रतौ कुण्डपाय्यसंचाय्यौ>> - क्रतौ कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्येते । कुण्डेनेति । अत्सरुकैश्चमसैरित्यर्थः । सामान्येनैकवचनम् ।यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड॑मिति श्रुतिः । कुण्डपाय्य इति । सत्रविशेषात्मकः ऋतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । आतो युक् । संचाय्य इति । संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः ।
क्रतौ कुण्यपाय्यसंचाय्यौ॥ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह - यतोऽनाव इतीति। यदुतरपदस्याद्यौदातत्वं कृदुतरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्॥