3-1-129 पाय्यसान्नाय्यनिकाय्यधाय्यः मानहविर्निवाससामिधेनीषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्
पाय्यादयः शब्दा निपात्यन्ते यथासंख्यं माने हविषि निवासे सामिधेन्यां चाभिधेयायाम्। पाय्य इति माङो ण्यत् प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम्। मेयमन्यत्। संपूर्वान्नयतेर्ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते। सान्नाय्यं (तै०सं० २.५.३.७) हविः। सन्नेयमन्यत्। रूढित्वाच्च हविर्विशेष एवावतिष्ठते। निपूर्वाच्चिनोतेर्ण्यदायादेशावादिकुत्वं च निपात्यते। निकाय्यो निवासः। निचेयमन्यत्। धाय्येति धाञो ण्यत् प्रत्ययो निपात्यते सामिधेनी चेत् सा भवति। धाय्या सामिधेनी। धेयमन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः। तत्र च धाय्येति न सर्वा सामिधेन्युच्यते। किं तर्हि? काचिदेव। रूढिशब्दो ह्ययम्। तथा चासामिधेन्यामपि दृश्यते — <<धाय्याः शंसत्यग्निर्नेता त्वं सोमक्रतुभिः>> (ऐ०ब्रा० ३.१८; ५.१) इति॥
मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः पत्वं च । आतो युक् <{SK2761}> इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥
<<पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु>> - पाय्यसांनाय्य । पाय्य, सांनाय्य, निकाय्य, धाय्य — एषां द्वन्द्वात्प्रथमाबहुवचनम् । मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते । मीयते अनेनेति । माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः । आत इति.ण्यतिमीनातीत्यात्त्वे कृते आतो युगिति भावः । ण्यदिति । संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः । आयादेशिति । सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः । निवास इति । कुसलादिरित्यर्थः । अधिकरणे इति । चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः । आयिति । अच्परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति । धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः । तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्यापृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा ।
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ मीयतेऽनेनेति मानम्, हूयत इति हविः, निवसत्यस्मिन्निति निवासः, समिधामाधानी ऋक् सामिधेनी। माङे ण्यत्प्रत्यय इति। करणे तत्र ठातो युक् चिण्कृतोःऽ इति युक्। मेयमन्यदिति। भावकर्मणोर्यदेव भवतीत्यर्थः। सान्नाय्यमिति। सम्यग्नीयते होमार्थमग्निं प्रतीति कर्मणि ण्यत्। हविर्विशेष इति। ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितयोर्दधिपयसोः। माघस्तु यथाश्रुतार्थग्राही हविर्मात्रे प्रायुङ्क्त -'हुतमयमवलीढेअ साधु सान्नाय्यमग्निः' इति। निचीयतेऽस्मिन्धान्यादिकमिति अधिकरणे ण्यत्। धाय्येति। धीयतेऽनया समिदिति करणे ण्यत्, पूर्ववद्यौक्। ऋग्विशेषस्येति।'प्रवोवाजा अभिद्यवः' इत्यादिकस्य। कि तर्हि काचिदेवेति। समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा पृथुयाजा अमर्त्य इत्यादिका। कथं पुनरयं विशेषो लभ्यत इत्याह - रूढिशब्दोह्य यमिति। अत एव निपातनाश्रयणमिति भावः। रूढित्वमेव द्रढयति - तथा चेति। धाय्याः शंसतीति ज्योतिष्टोमे मरुत्वतीये शस्त्रे विधानमेतत्। सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थमिति भावः॥