प्रणाय्योऽसंमतौ

3-1-128 प्रणाय्यः असम्मतौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अविद्यमाना संमतिरस्मिन्नित्यसंमतिः। संमननं संमतिः। संमतता पूजा। प्रणाय्य इति निपात्यतेऽसंमतावभिधेये। प्रणाय्यश्चोरः। असंमताविति किम्? प्रणेयोऽन्यः। यद्येवं कथमेतत् — <<ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वा अन्तेवासिने नान्यस्मै कस्मैचन>> (छा०उप० ३.११.५,६) इति? संमतिरभिलाषोऽप्युच्यते। तदभावेन निष्कामतया असंमतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म प्रब्रूयादिति युज्यते॥

Siddhanta Kaumudi

Up

संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रणाय्योऽसंमतौ>> - प्रणाय्योऽसमंतौ । असंमतौ गम्यायां 'प्रणाय्य' इति निपात्यते । तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति — प्रीतिविषयीभवनमिति । तच्च कर्मनिष्ठमित्याह — कर्मव्यापार इति.तथेति । भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः । एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् । प्रणाय्यश्चोर इति । ण्यति वृद्धौ आयादेशः ।

Padamanjari

Up

प्रणाय्योऽसम्मतौ॥ असम्मताविति बहुब्रीहित्याह - अविद्यमाना संमतिरस्मिन्निति। सम्मतिश्चात्र संमननं प्रीतिविषयभावोपगमनं कर्मव्यापारो विवक्ष्यते, न संमन्तृव्यापारः; तथा सत्यसंमन्तरि निपातनप्रसङ्गात्, तस्य चानिष्टत्वादित्यभिप्रायेणाह - संमतता संमतिरिति। संमतिरमिलाषोऽप्युच्यत इति। भोगविषयोऽप्यादरः सम्मतिशब्देनोच्यते, तन्त्रेणेत्यर्थः॥