आनाय्योऽनित्ये

3-1-127 आनाय्यः अनित्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आनाय्य इति निपात्यतेऽनित्येऽभिधेये। नयतेराङ्पूर्वाण् ण्यदायादेशौ निपात्येते। आनाय्यो दक्षिणाग्निः। रूढिरेषा। तस्मादनित्यविशेषे दक्षिणाग्नावेवावतिष्ठते। तस्य चानित्यत्वं नित्यमजागरणात्। यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सहैकयोनिः, तत्रैतन्निपातनम्, न दक्षिणाग्निमात्रे। तस्य हि योनिर्विकल्प्यते वैश्यकुलाद् वित्तवतो भ्राष्ट्राद् वा गार्हपत्याद् वा (तु० — पार०गृ० १.२.३) इति।

आनाय्योऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत्।

एकयोनौ च तं विद्यादानेयो ह्यन्यथा भवेत्॥

Siddhanta Kaumudi

Up

आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनियतश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आनाय्योऽनित्ये>> - अनाय्योऽनित्ये । 'अनित्ये' इति च्छेदः । दक्षिणाग्निविशेषएवेति । वार्तिकमिदम् । स हीति । दक्षिणाग्निर्ह अग्निहोत्रार्थमहरर्गार्हपत्यादेः प्रणीयत इत्यर्थः । एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति । गार्हपत्यवन्नित्यधारणाऽभावादिति भावः । तदाह — सततमिति । सततं धारणाऽभावादित्यर्थः । प्रमैइतस्य दक्षिणाऽग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु — अप्रवृत्ते कर्मणि लौकिकं संपद्यतेट इति । ततश्चपुनःपुनः प्रणयनादनित्यत्वं दक्षिणाग्नेरिति बोध्यम् । यद्यप्याहवनीयस्यापि पुनःपुनः प्रणयनमस्ति, तथापिदक्षिणाऽग्निविशेष एवे॑ति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः । विशेषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्रते इति सूचितम्, गतश्रियां दक्षिणाग्नेरपि नित्यधार्यत्वात्,गतश्रियो नित्यधार्या अग्नयः॑इति वचनादित्यलं पल्लवितेन । वैश्यकुलादानीत इति । दक्षिणाग्न प्रकृत्यहि श्रूयते — अहरहरेवैनं वैश्यकुलादाहरन्इति । तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः ।

Padamanjari

Up

आनाय्योऽनित्ये॥ रूढिरेषेति। तेन घटादावतिप्रसङ्गो नोद्भावनीय इति। निपातनाच्च रूढित्वम्। उक्तं हि - रूढ।ल्र्थं च निपातनमिति। कुतः पुनरनित्यत्वमित्यत्राह - तस्य चानित्यत्वमिति। नित्यमजागरणादिति। सततमज्वलनादित्यर्थः, ज्वलनमेव हि तस्य जागरणम्। दक्षिणाग्नावपि विशिष्ट एवेष्यते, न सर्वत्रैवेति दर्शयति - यश्चेति। योनिःऊत्पतिस्थानम्। वैश्यकुलादित्यादिनायोनिविकल्पं दर्शयति। आनाय्योऽनित्य इति चेदिति। घटादिष्वपि प्रसङ्ग इति शेषः। भवेदिति। सम्भावने लिङ्। निपातनादेव सम्भाव्यत इत्यर्थः। एकयोनाविति। आहवनीयेन। आनेयो ह्यन्यथा भवेदिति। घटादावनित्येभिन्नयोनौ च दक्षिणाग्नौ, ठचो यत्ऽ इति यदेव भवतीत्यर्थः॥