आनाय्योऽनित्ये

3-1-127 आनाय्यः अनित्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्

Kashika

Up

index: 3.1.127 sutra: आनाय्योऽनित्ये


आनाय्यः इति निपात्यते अनित्येऽभिधेये। नयतेराङ्पूर्वाण् ण्यदायादेशौ निपात्येते। आनाय्यो दक्षिणाग्निः। रूढिरेषा। तस्माद् नित्यविशेषे दक्षिणाग्नावेव अवतिष्ठते। तस्य च अनित्यत्वं नित्यमजागरणात्। यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सह एकयोनिः, तत्र तन् निपातनं, न दक्षिणाग्निमात्रे। तस्य हि योनिर्विकल्प्यते वैश्यकुलाद् वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद् वा इति। आनाय्योऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत्। एकयोनौ तु तं विद्यादानेयो ह्रन्यथा भवेत्।

Siddhanta Kaumudi

Up

index: 3.1.127 sutra: आनाय्योऽनित्ये


आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनियतश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥

Balamanorama

Up

index: 3.1.127 sutra: आनाय्योऽनित्ये


आनाय्योऽनित्ये - अनाय्योऽनित्ये । 'अनित्ये' इति च्छेदः । दक्षिणाग्निविशेषएवेति । वार्तिकमिदम् । स हीति । दक्षिणाग्निर्ह अग्निहोत्रार्थमहरर्गार्हपत्यादेः प्रणीयत इत्यर्थः । एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति । गार्हपत्यवन्नित्यधारणाऽभावादिति भावः । तदाह — सततमिति । सततं धारणाऽभावादित्यर्थः । प्रमैइतस्य दक्षिणाऽग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु — अप्रवृत्ते कर्मणि लौकिकं संपद्यतेट इति । ततश्चपुनःपुनः प्रणयनादनित्यत्वं दक्षिणाग्नेरिति बोध्यम् । यद्यप्याहवनीयस्यापि पुनःपुनः प्रणयनमस्ति, तथापिदक्षिणाऽग्निविशेष एवे॑ति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः । विशेषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्रते इति सूचितम्, गतश्रियां दक्षिणाग्नेरपि नित्यधार्यत्वात्,गतश्रियो नित्यधार्या अग्नयः॑इति वचनादित्यलं पल्लवितेन । वैश्यकुलादानीत इति । दक्षिणाग्न प्रकृत्यहि श्रूयते — अहरहरेवैनं वैश्यकुलादाहरन्इति । तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः ।

Padamanjari

Up

index: 3.1.127 sutra: आनाय्योऽनित्ये


आनाय्योऽनित्ये॥ रूढिरेषेति। तेन घटादावतिप्रसङ्गो नोद्भावनीय इति। निपातनाच्च रूढित्वम्। उक्तं हि - रूढ।ल्र्थं च निपातनमिति। कुतः पुनरनित्यत्वमित्यत्राह - तस्य चानित्यत्वमिति। नित्यमजागरणादिति। सततमज्वलनादित्यर्थः, ज्वलनमेव हि तस्य जागरणम्। दक्षिणाग्नावपि विशिष्ट एवेष्यते, न सर्वत्रैवेति दर्शयति - यश्चेति। योनिःऊत्पतिस्थानम्। वैश्यकुलादित्यादिनायोनिविकल्पं दर्शयति। आनाय्योऽनित्य इति चेदिति। घटादिष्वपि प्रसङ्ग इति शेषः। भवेदिति। सम्भावने लिङ्। निपातनादेव सम्भाव्यत इत्यर्थः। एकयोनाविति। आहवनीयेन। आनेयो ह्यन्यथा भवेदिति। घटादावनित्येभिन्नयोनौ च दक्षिणाग्नौ, ठचो यत्ऽ इति यदेव भवतीत्यर्थः॥