आसुयुवपिरपिलपित्रपिचमश्च

3-1-126 आसुयुवपिरपिलपित्रपिचमः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आङ्पूर्वात् सुनोतेः यु वपि रपि लपि त्रपि चम् इत्येतेभ्यश्च ण्यत् प्रत्ययो भवति। यतोऽपवादः। आसाव्यम्। याव्यम्। वाप्यम्। राप्यम्। लाप्यम्। त्राप्यम्। आचाम्यम्। अनुक्तसमुच्चयार्थश्चकारः। दभि — दाभ्यम्॥

Siddhanta Kaumudi

Up

षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आसुयुवपिरपिलपित्रपिचमश्च॥ पुप्रभृतीनां द्वन्द्वेन आसुनोतेर्द्वन्द्व इत्याहुः। सुनोतेरभिसम्बन्धस्तदाह - आङ्पूर्वात्सुनोतेरिति।'षु प्रसवैश्वर्ययोः' इत्यस्यत्वग्रहणम्'कृत्यल्युटो बहुलम्' इति।'यु' इति'युमिश्रणे इत्यस्य ग्रहणम्।'युञ् बन्धने' इत्यस्य तु सानुबन्धकत्वादग्रहणम्। यतो' पवाद इति। ठचो यत्ऽ'पोरदुपधात्' इति यथायोगं प्राप्तस्य। दाभ्यमिति। दभेर्धातुष्वपठितस्यापि चुरादौ'बहुलमेतन्निदर्शनम्' इति वचनाच्छिष्टप्रयोगाच्च क्षपयत्यर्थयत्यवधीरयत्यादिवद्धातुत्वं द्रष्टव्यम्॥