3-1-122 अमावस्यत् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः
अमाशब्दः सहार्थे वर्तते। तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत् प्रत्ययो भवति, तत्रान्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतोऽस्मिन् काले सूर्यचन्द्रमसावित्यमावास्या, अमावस्या। एकदेशविकृतस्यानन्यत्वात्<<अमावास्याया वा>> (४.३.३०) इत्यत्रामावस्याशब्दस्यापि ग्रहणं भवति।
अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्।
तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति॥
अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावस्या । अमावास्या । ऋहलोर्ण्यत् <{SK2872}> । चजोः <{SK2863}> इति कुत्वम् । पाक्यम् ।<!पाणौ सृजेर्ण्यद्वाच्यः !> (वार्तिकम्) ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः ।<!समवपूर्वाच्च !> (वार्तिकम्) ॥ समवसर्ग्या ॥
<<अमावस्यदन्यतरस्याम्>> - अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् ।अमे॑त्यस्य विवरणम् — सहेति ।ऋहलोण्य॑दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम् । कुत्वमिति । पचेण्र्यतिचजो॑रिति कुत्वमिति भावः । ननुपाणौ सृजेण्र्य॑दिति व्यर्थम्,ऋहलो॑रित्येव सिद्धेरित्यत आह — ऋदुपधलक्षणस्येति ।ऋदुपदाच्चाऽकॢपिचृतेः॑ इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः । पाणिसग्र्या रज्जुरिति । ण्यतिचजो॑रिति कुत्त्वम् । समवपूर्वाच्चेति । वार्तिकमिदम् ।सृजेण्र्य॑दिति शेषः ।
अमावस्यदन्यतरस्याम्॥ अमाशब्दः सहार्थे वर्तत इति। अमात्य इत्यादौ दर्शनात्। तस्मिन्नुपपद इति। उपपदत्वमपि निपातनादेव, अमेति वा सप्तम्या लुका निर्देशः। तकारोच्चारणात्प्रकृतस्य क्यपस्तावन्निपातनं न भवति। यदि तु परमप्रकृतस्य यतो निपातनं स्यात् स्वरे दोषः - स्यात् - यति सति वस्याशब्दे'यतो' नावःऽ इत्याद्यौदातत्वम्; कृदुतरपदप्रकृतिस्वरत्वेऽपि स एव स्वरोऽवतिष्ठेत, ण्यति त्वन्तस्वरितत्वं भवति। तथा यता मुक्तेऽमावास्येत्यधिकरणे ण्यन्न प्राप्नोति,'कृत्यल्युटो बहुलम्' इति भविष्यति। एवमप्युपपदसमासो न प्राप्नोति? मयूरव्यंसकादित्वाद्भविष्यति। एवमपि'गतिकारकोपपदात्' इति स्वरो न प्राप्नोति? तथा ठमावास्याया वाऽ इति ण्यदन्तस्य यत्कार्थ तद्यदन्तस्यामावस्यशब्दस्य न स्याद्, भिन्नत्वात्? इति यदन्तपक्षे दोषं द्दष्ट्वा प्रकृतस्यापि ण्यत एव निपातनमित्याह - ण्यत्प्रत्ययो भवतीति। किं तर्हि उच्यते - -ण्यत्प्रत्ययो भवतीति, न पुनर्ण्यत्प्रत्ययो निपात्यत इति? सत्यम्, स एवार्थः, निपातनाद् ण्यत्प्रत्यो भवतीत्यर्थः। अन्यतरस्यां वृद्ध्यभावो निपात्यत इति। ण्यत्प्रत्ययो नित्यः, वृद्ध्यभावस्तु पाक्षिक इत्यर्थः। सह वसत इति। सन्निकृष्टौ वसत इत्यर्थः। यदुक्तम् - ण्यत्प्रत्ययो निपात्यत इति, तत्रायं गुण इत्याह - एकदेशविकृतस्यानन्यत्वादिति। ण्यति ह्यमावास्येति स्वतः प्राप्तं रूपम्, वृद्ध्यभावस्तु तस्यैव विकार इति भावः। यद्वा - -ण्यति वृद्धौ कृतायां पक्षे ह्रस्वोऽपि निपात्यते, स एव वृद्ध्यभाव उक्तः। एवं श्लोकेऽप्यवृद्धितामिति। किमत्र निपात्यत इत्याशङ्कायां श्लोकः - -अमावसोरित्यादि। वृद्धिभावाभावकृतविशेषाश्रयो द्विवचननिर्द्देशः। निपातयामीति। एकस्यैवेति शेषः, अभापूर्वयोर्वसोर्ण्यन्तयोर्मध्य एकस्य वृद्ध्यभावमहं निपातयामीत्यर्थः। सूत्रकारेणैक्यमापन्नस्यैतद्वचनम्। तथा सति किं सिद्धमित्यत्राह - तथेति। एका तद्धितवृत्तिरेकदेशविकृतस्यानन्यत्वाद् एतयोर्द्वयोरपि सिद्ध्यतीत्यर्थः। स्वरश्च मे प्रसिद्ध्यतीति। एवं निपातयतो मम स्वरोऽपि सिद्ध्यति। व्याख्यातः स्वरः॥