3-1-121 युग्यं च पत्रे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च
युग्यमिति निपात्यते पत्रं चेत् तद् भवति। पतत्यनेनेति पत्रम्, वाहनमुच्यते। युग्यो गौः। युग्योऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्र इति किम्? योग्यमन्यत्॥
पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥
<<युग्यं च पत्त्रे>> - युग्यं च पत्रे । क्यबन्तं निपात्यते । ण्यतोऽपवादः । युग्यो गौरिति । शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वं निपातनात् । पत्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे 'दाम्नीशसे' त्यादिना करणे ष्ट्रन् । ण्यति तु योग्यमिति स्यात् ।
युग्यं च पत्त्रे॥ पतत्यनेनेति पत्रमिति।'दाम्नीशस' इत्यादिना करणे ष्ट्रन्।'तद्वहति रथयुगप्रसङ्गम्' इति प्राग्दीव्यतीयेनैव यथा सिद्धम्। स्वरेऽपि नास्ति भेदः - क्यपि धातुस्वरः, यत्यपि'यतो' नावःऽ इत्याद्यौदातत्वम्, अयुग्यमित्यत्रापि न स्वरे भेदः,'ययतोश्चातदर्थे' 'कृत्योकेष्णुच्चार्वादयश्च' इत्युभयत्रान्तोदातविधानात्॥