3-1-119 पदास्वैरिबाह्यापक्ष्येषु च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च ग्रहेः
पदेऽस्वैरिणि बाह्यायां पक्ष्ये चार्थे ग्रहेर्धातोः क्यप् प्रत्ययो भवति। पदे तावत् — प्रगृह्यं पदम्, यस्य प्रगृह्यसंज्ञा विहिता। अवगृह्यं पदम्, यस्यावग्रहः क्रियते। अस्वैरी परतन्त्रः। गृह्यका इमे। गृहीतका इत्यर्थः। बाह्यायाम् — ग्रामगृह्या सेना। नगरगृह्या सेना। ग्रामनगराभ्यां बहिर्भूतेत्यर्थः। स्त्रीलिङ्गनिर्देशादन्यत्र न भवति। पक्षे भवः पक्ष्यः। वासुदेवगृह्याः। अर्जुनगृह्याः। तत्पक्षाश्रिता इत्यर्थः॥
अवगृह्यम् । प्रगृह्यं पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्निर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥
<<पदास्वैरिबाह्यापक्ष्येषु च>> - पदाऽस्वैरि.पद, अस्वैरि, बाह्रा, पक्ष्य एष्वर्थेषु ग्रहेः क्यबित्यर्थः । अवगृह्रं प्रगृह्रं वा पदमिति । समस्तपदस्य अवान्तरपदविच्छेदोऽवग्रहः ।अप्रावेत्यादिपदमितिशिरस्कं प्रग्रहः॑ इति प्रातिशाख्ये प्रसिद्धम् ।ईदूदेद्द्विवचनं प्रगृह्र॑मिति सूत्रोदाहरणं च प्रगृह्रम् ।
पदास्वैरिबाह्यापक्ष्येषु च॥ अस्वैरिणीति। ठीर प्रेरणेऽ स्वयमेवेरितुं शीलमस्या इति ताच्छीलिको णिनिः,'स्वादीरेरिणोः' इति वृद्धिः। बाह्यायामिति। बहिर्भवा'बहिषष्टिलोपश्च' इति यञ्टिलोपौ, पक्षे भवः पक्ष्यः दिगादित्वाद्यत्। यस्य प्रगृह्यसंज्ञा विहितेति। ननु पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा, न तु पदस्य? सत्यम्; यौगिकस्त्वयं पदशब्दः - पद्यते मग्यतेऽनेनार्थ इति। यद्वा प्रातिशाख्ये द्विवचनान्ते पद एव प्रकृह्यशब्दः प्रसिद्धः। सन्निकर्षोऽत्र गृह्णातेरर्थः। स्वरसन्ध्यभावादग्नी इत्यादौ कियतापि कालेन व्यवधानात्परस्परमचो न सन्निकृष्यन्ते। अवगृह्यमिति। समासे पूर्वपदम्, तत्र हि पदकालेऽवग्रहो विच्छेदः गृह्यका इमे गृहीतिका इत्यर्थ इति। उभयत्रानुकम्पायां कन्। पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते। ग्रामगृह्यएति। शेषलक्षणायाः षष्ठयाः समासः। वासुदेवगृह्यएत्यत्र तु कर्तरि षष्ठयाः शेषषष्ठ।ल वा समासः॥