प्रत्यपिभ्यां ग्रहेश्छन्दसि

3-1-118 प्रत्यपिभ्यां ग्रहेः छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रति अपि इत्येवंपूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। मत्तस्य न प्रतिगृह्यम् (काठ०सं० १४.५)। तस्मान् नापिगृह्यम् (काठ०सं० २७.३)। छन्दसीति किम्? प्रतिग्राह्यम्। अपिग्राह्यम्॥

Siddhanta Kaumudi

Up

।<!छन्दसीति वक्तव्यम् !> (वार्तिकम्) ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रत्यपिभ्यां ग्रहेश्छन्दसि>> - प्रत्यपिभ्यां ग्रहे । छन्दसीति । वार्तिकमिदम् । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह — लोके त्विति ।

Padamanjari

Up