विपूयविनीयजित्या मुञ्जकल्कहलिषु

3-1-117 विपूयविनीयजित्याः मुञ्जकल्कहलिषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेष्वर्थेषु बोध्येषु। विपूर्वात् पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब् निपात्यते। विपूयो मुञ्जः। विपव्यमन्यत्। विनीयःकल्कः। विनेयमन्यत्। जित्यो हलिः। जेयमन्यत्॥

Siddhanta Kaumudi

Up

पूङ्नीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । पिष्ट ओषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्यः इत्यर्थः । कृष्टसमीकरणार्थं स्थूलकाष्ठम् । अन्यत्तु विपव्यम् । विनेयम् । जेयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विपूयविनीयजित्या मुञ्जकल्कहलिषु>> - विपूय । विपूय, विनीय, जित्य - एते यथाक्रमं मुञ्जुकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह — पूङित्यादिना । न्यादिसाहचर्याद्भौवादिकस्यैव पूधातोग्र्रहणमिति भावः । हलिशब्दस्य विवरणं - कृष्टेति ।

Padamanjari

Up

लिपूयविनीयजित्या मुञ्जकल्कहलिषु॥ विपूयो मुञ्ज इति। रज्वादिकरणाय शोधयितव्य इत्यर्थः। विनीयः कल्क इति। कल्कशब्दोऽयमस्ति पिष्ट औषधे -'पथ्या सुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय' इति, तैले घते वा औषधे प्रक्षिप्ते यदजीषं तत्रापि वर्तते, तापे च प्रसिद्धः -'तपो न कल्को' ध्ययनं न कल्कःऽ इत्यादौ; इह तु प्रथमस्य ग्रहणमिति केचित्। विशेषेणेति वयम्, तथा च माघः प्रायुङ्क्त - ठविनीय संभ्रमविकासिभक्तिभिःऽ इति। जित्य इति। बलेनाक्रष्टव्यः। कृष्टसमीकरणार्थं स्थूलं काष्ठ्ंअ हलिरिच्युत्यते॥