3-1-116 पुष्यसिद्ध्यौ नक्षत्रे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च
index: 3.1.116 sutra: पुष्यसिद्ध्यौ नक्षत्रे
पुषेः सिधेश्च अधिकरणे क्यप् निपात्यते नक्षत्रे अभिधेये। पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः। सिध्यन्ति अस्मिन्निति सिद्ध्यः। नक्षत्रे इति किम्? पोषणम्। सेधनम्।
index: 3.1.116 sutra: पुष्यसिद्ध्यौ नक्षत्रे
अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥
index: 3.1.116 sutra: पुष्यसिद्ध्यौ नक्षत्रे
पुष्यसिद्ध्यौ नक्षत्रे - पुष्यसिध्यौ । 'निपात्येते' इति शएषः । नक्षत्रविशेषे गम्ये इत्यर्थः ।
index: 3.1.116 sutra: पुष्यसिद्ध्यौ नक्षत्रे
पुष्यसिद्ध्यौ नक्षत्रे ॥ पुष्यन्त्यस्मिन्नर्था इति। आरब्धा इति शेषः। सिद्धन्त्यस्मिन्निति। अत्रार्था इत्यपेक्ष्यते। पुष्पसिद्धशब्दौ पर्यायौ। स्वरूपपरत्वातु सूत्रे द्वन्द्वः॥