3-1-115 भिद्योद्ध्यौ नदे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च
भिदेरुज्झेश्च क्यब् निपात्यते नदेऽभिधेये। उज्झेर्धत्वं च। भिनत्ति कूलं भिद्यः। उज्झत्युदकम् उद्ध्यः। नद इति किम्? भेत्ता। उज्झिता॥
भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥
<<भिद्योद्ध्यौ नदे>> - भिद्योध्यौ नदे । क्यबिति ।नद विशेषे कर्तरि निपात्यते॑ इति शेषः ।