भृञोऽसंज्ञायाम्

3-1-112 भृञः असञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भृञो धातोरसंज्ञायां विषये क्यप् प्रत्ययो भवति। भृत्याः कर्मकराः। भर्तव्या इत्यर्थः। असंज्ञायामिति किम्? भार्यो नाम क्षत्रियः॥ संपूर्वाद् विभाषा॥ संभृत्याः, संभार्याः॥

संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।

स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति॥

Siddhanta Kaumudi

Up

भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ।<!समश्च बहुलम् !> (वार्तिकम्) ॥ संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समज-<{SK3276}> इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यं । बिभर्तेर्भॄ इति दीर्घान्तात् क्रयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भृञोऽसंज्ञायाम्>> - भृञोऽसंज्ञायाम् ।क्य॑बिति शेषः । भृत्याः कर्मकुर्वाणा इत्यर्थः । 'कर्मणि भृतौ' इति कृञष्टः । भर्तव्या इति । वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कर्मकरेषु रूञत्वात्संज्ञाशब्दत्वमेवेत्यत आह — क्रियाशब्दिति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः । अथ कथं भार्येति । क्यपा भवितव्यमित्याक्षेपः । ननु बध्वां भार्याशब्दस्य संज्ञाशब्दत्वात्भृञोऽसंज्ञाया॑मित्यत्र असंज्ञायामिति व्यर्थमित्यत आह — संज्ञापर्यादुसत्विति । समाधत्ते — सत्यमिति ।डु भृञ् धारणपोषणयोः॑ इति जुहोत्यादौ ह्रस्वान्तो ड्वित्, ञिच्च ।भृ भत्र्सने, भरणेऽपी॑ति क्र्यादौ दीर्घान्तः । आभ्यामृहलोण्र्यदिति ण्यदेवेत्यर्थः । क्यप्तु भरतेरेवेति । 'भृञ् भरणे' इति भ्वादौ ह्रस्वान्तो ञित् । अस्यैवसंज्ञायां समजनिषदे॑त्त्र,भृञोऽसंज्ञाया॑मित्यत्र च भृञ्ग्रहणेन ग्रहणम्, नतु डुभृञौ जौहोत्यादिकस्य । न च क्रैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः । कुत इत्यत आह — तदनुबन्धकेति ।तदनुबन्धकग्रहणे नातदनुबन्धकस्ये॑ति परिभाषयेत्यर्थः । बिभर्तेः क्यबभावे बीजमिदम् । क्रैयादिकस्य दीर्घान्तत्वान्न क्यबिति बोध्यम् ।

Padamanjari

Up

भृञोऽसंज्ञायाम्॥ भर्तव्या इत्यर्थ इति। एतेन क्रियाशब्दत्वं दर्शयन् संज्ञात्वमपाकरोति। संपूर्वाद्विभाषेति। असंज्ञायामेव सूत्रेण नित्यं प्रसक्तस्य क्यपोऽयं विकल्पः। प्राप्तविभाषेत्यर्थः। संज्ञायामित्यादि। प्रतिषेधस्येति शेषः। असंज्ञायामित्यस्य प्रतिषेधस्य भार्यो नाम क्षत्रिय इत्यत्र पुंसि द्दष्टत्वाच्चरितार्थत्वान्न तेउसूत्रकारस्य भार्या शब्दः सिद्ध्यतीत्यपर्थः। पुंसि चरितार्थे हि प्रतिषेधे स्त्रियां क्यपा भवितव्यम्। ननु भार्याशब्दोऽपि संज्ञा, अभ्रियमाणापि हि भार्या भार्येत्युच्यते, तत्कुतोऽस्य क्यपः प्रसङ्गः? न ब्रूमोऽनेन क्यपा भवितव्यमिति; यस्तु संज्ञायामेव विधीयते'संज्ञायां समजनि' इत्यादिना, तस्यात्र प्रसङ्गः। न च तस्यापि प्रतिषेधसामर्थ्यान्निवृत्तिः, पुंसि प्रतिषेधस्य चरितार्थथ्वादिति चोद्यम्। उतरमाह - स्त्रियां बावाधिकारोऽस्तीति। ननु'सञ्ज्ञायां समजनिषद' इत्यत्र वक्ष्यति -'भाव इति न स्वर्यते पूर्वक एवार्थाधिकारः' इति, यथा - समजन्ति तस्यामिति समज्या, निषदन्ति तस्यामिति निषद्येत्यादि भवति, तत्कथमिदमुच्यते - स्त्रियां भावाधिकारोऽस्तीति? नेदमपूर्व चोद्यम्, वृत्तिकार एव हि तत्र वक्ष्यति - कथं तदुक्तं स्त्रियाम् भावाधिकारो ऽस्तीति। स्त्रियां स्त्रीप्रकरणे'संज्ञायां समजनि' इत्यादिना क्यपि विधीयमाने भावस्याधिकारोऽभिधेयभावोपगमलक्षणो व्यापारोऽस्ति; शब्दशक्तस्वाभाव्याद्। भावि एव तेन क्यब् भवति, न कर्मणि, तेन भार्या प्रसिद्ध्यतीति कर्मणीत्यभिप्रायः। ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति'भृञ् भरणे' इत्यस्यैव क्यब्विधौ ग्रहणम्, न'डुभृञ् धारणपोषणयोः' इत्यस्य। अतस्तस्माद्वा'भृञ् भरणे' इत्यस्माद्दीर्घान्ताद्वा भार्येति प्रसिद्ध्यतीति परिहारान्तरमप्यत्र सम्भवति॥