3-1-108 हनः त च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः अनुपसर्गे सुपि क्यप् च भावे
सुप्यनुपसर्ग इति वर्तते, भाव इति च। हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रह्महत्या। अश्वहत्या। सुपीत्येव — घातः। ण्यत् तु भावे न भवत्यनभिधानात्। अनुपसर्ग इत्येव — प्राघातो वर्तते॥
अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥
<<हनस्त च>> - हनस्त । अन्तादेश इति ।प्रकृते॑रिति शेषः । भावे किम् । घात्यो वृषलः । अनुपसर्गे किम् । प्रघातः । निरुपपदं हत्येति त्वसाध्वेव ।
हनस्त च॥ ब्रहामहत्येति। स्वभावतः स्त्रीलिङ्गत्वमस्य क्यबन्तस्य, यथान्येषां भावे कृत्यानां नपुंसकत्वम्। च्छन्दसि तु क्यबन्तस्यापि नपुंसकत्वमिष्यते - सनादेव दस्युहत्याय जज्ञिषे। च्छन्दिस च स्त्रियां चिद्वक्तव्यः - अस्यै ब्रह्महत्यायै तृतीयं परिगृहाणेति। प्रघातो वर्तत इति। किं पुनः कारणं घञ् प्रत्युदाह्रियते, न ण्यदित्यत आह - ण्यतु भावे न भवतीति। कर्माविवक्षायामकर्मकत्वे सत्यपीति भावः। सकर्मकातु भावे ण्यतः प्राप्तिरेव नास्ति॥