भुवो भावे

3-1-107 भुवः भावे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः अनुपसर्गे सुपि क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुप्यनुपसर्ग इत्यनुवर्तते। भवतेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु नानुवर्तते। ब्रह्मभूयं गतः। ब्रह्मत्वं गतः। देवभूयं गतः, देवत्वं गतः। भावग्रहणमुत्तरार्थम्। सुपीत्येव — भव्यम्। अनुपसर्ग इत्येव — प्रभव्यम्॥

Siddhanta Kaumudi

Up

क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भुवो भावे>> - भुवो भावे । ब्राहृभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति । भाव इत्यर्थः । अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः,वान्तो यी॑त्यवादेशः । प्रभव्यमिति । प्रभाव इत्यर्थः ।

Padamanjari

Up

भुवो भावे॥ यतु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु'तयोरेव कृत्यक्तखलर्थाः' इति भावकर्मणोः कृत्या विधीयन्ते, ठनुपसर्गेऽ इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सतार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह - भावग्रहणमुतरार्थमिति।'हनस्त च' इति सकर्मकादपि हनो भावे यथा स्याद् - ब्राह्महत्या वर्तत इति, कर्मणि मा भूत् - त्वया घात्यो वृषल इति॥