3-1-107 भुवः भावे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः अनुपसर्गे सुपि क्यप् च
index: 3.1.107 sutra: भुवो भावे
सुप्यनुपसर्गे इत्यनुवर्तते। भवतेर्धातोः सुबन्ते उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु न अनुवर्तते। ब्रह्मभूयं गतः ब्रहंत्वं गतः। देवभूयं, देवत्वं गतः। भावग्रहणमुत्तरार्थम्। सुपि इत्येव, भव्यम्। अनुपसर्गे इत्येव, प्रभव्यम्।
index: 3.1.107 sutra: भुवो भावे
क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥
index: 3.1.107 sutra: भुवो भावे
भुवो भावे - भुवो भावे । ब्राहृभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति । भाव इत्यर्थः । अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः,वान्तो यी॑त्यवादेशः । प्रभव्यमिति । प्रभाव इत्यर्थः ।
index: 3.1.107 sutra: भुवो भावे
भुवो भावे॥ यतु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु'तयोरेव कृत्यक्तखलर्थाः' इति भावकर्मणोः कृत्या विधीयन्ते, ठनुपसर्गेऽ इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सतार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह - भावग्रहणमुतरार्थमिति।'हनस्त च' इति सकर्मकादपि हनो भावे यथा स्याद् - ब्राह्महत्या वर्तत इति, कर्मणि मा भूत् - त्वया घात्यो वृषल इति॥