3-1-106 वदः सुपि क्यप् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे
अनुपसर्ग इति वर्तते, वदेर्धातोः सुबन्त उपपदेऽनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद् यच्च। ब्रह्मोद्यम्, ब्रह्मवद्यम्। सत्योद्यम्, सत्यवद्यम्। सुपीति किम्? वाद्यम्। अनुपसर्ग इत्येव — प्रवाद्यम्॥
उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याच्चद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्यके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥
<<वदः सुपि क्यप् च>> - वदः सुपि । उत्तरेति । 'भुवो भावे' इत्यत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः । अनुपसर्गे इति ।वृः सुप्यनुसर्गग्रहण॑मिति भाष्यादिति भावः । ब्राहृओद्यमिति । वदेः क्यपि वचिस्वपी॑पि संप्रसारणम् ।वस्तुतस्तु नेह भावग्रहणमपकृष्यते, तत्र भावग्रहणमुत्तरार्थमिति भाष्या॑दिति मतमनुसृत्य आह — कर्मणि प्रत्ययावित्येके इति । क्यब्यतावित्यर्थः ।
वदः सुपि क्यप् च॥ अनुपसर्गे इति वर्तत इति।'सत्सूद्विष' इत्यादौ सूत्रे वक्ष्यति - उपसर्गग्रहणं ज्ञापकमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति। तच्चावश्यं तथैवाश्रयणीयम् -'सुप्यजातौ' 'स्पृशो' नुदके क्विन्ऽ इत्यादावुपसर्गग्रहणं मा भूदिति, ततश्च नार्थ इहानुपसर्गग्रहणानुवृत्या। सुबन्ते उपपदे अनुपसर्ग इति। यद्यपि पूर्व बहुव्रीहेः पञ्चम्यर्थे सप्तमीति व्याख्यातम्, इह तु विरोधाभावातत्पुरुषात्स्वार्थ एव सप्तमीति भावः। ब्रह्माएद्यमिति। भावे क्यप्, पूर्ववत्संप्रसारणम्। ब्रह्मवेदः, तस्य वदनमित्यर्थः। कथं पुनः सकर्मकाद्भावे कृत्यप्रत्ययः यावता भावे चाकर्मकेभ्यः'तयोरेव कृत्यक्तखलर्थाः' इति वक्ष्यति; न च कर्माविवक्षयाऽकर्मकत्वम्; ब्रह्मएति कर्मणः श्रुतत्वात्? तस्मादुतरसूत्रादिह भावग्रहणमपेक्षणीयमित्याहुः॥