3-1-105 अजर्यं सङ्गतम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे
अजर्यमिति निपात्यते, संगतं चेद् भवति। जीर्यतेर्नञ्पूर्वात् संगते संगमने कर्तरि यत् प्रत्ययो निपात्यते। न जीर्यतीत्यजर्यम्। अजर्यमार्यसंगतम्। अजर्यं नोऽस्तु संगतम्। संगतमिति किम्? अजरिता कम्बलः॥
नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतं येद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्यं कुरु द्रुतमिति भट्टिः । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्यं संगतेन ॥
<<अजर्यं संगतम्>> - अजर्यम् । कर्तरि यदिति ।कर्तरीति वक्तव्य॑मिति वार्तिकम् । निपातनात्कर्तरीति लभ्यत इति तदाशयः । सङ्गतमिति । सङ्गतं = सङ्गमः । न जीर्यतीत्यजर्यमिति ।मित्रत्व॑मिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह — तेनेति । हे राम ! तेन आर्येण अजर्यम् = अनआरं, सङ्गतं- सङ्गमं द्रुतं कुरु इत्यन्वयः । ननु 'मृगौरजर्यं जरसा' इत्यत्र सङ्गतशब्दाऽभावात्कथं यदित्यत आह — मृगैरित्यादि । कालिदासकाव्यमिदम् । अजरितेति । तृजऽभावान्न यदित्यर्थः ।
अजर्य सङ्गतम्॥ सङ्गमने कर्तरीति। सूत्रे'सङ्गतम्' इति'नपुंसके भावे क्तः।' इति दर्शयति। कर्तरीति'तयोरेव कृत्यक्तखलर्थाः' इति भावे भा भूदिति निपातनाश्रयणम्। तेन भावे सङ्गतकर्तृकेऽपि ण्यदेव भवति - अजार्य सङ्गतेनेति। अजरितेति। तृच्॥