3-1-104 उपसर्या काल्या प्रजने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे
उपसर्येति निपात्यते काल्या चेत् प्रजने भवति। उपपूर्वात् सर्तेर्यत् प्रत्ययः। प्राप्तकाला काल्या। प्रजनः प्रजननम्, प्रथमगर्भग्रहणम्। गर्भग्रहणे प्राप्तकाला। उपसर्या गौः। उपसर्या वडवा। काल्या प्रजन इति किम्? उपसार्या शरदि मधुरा॥
गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥
<<उपसर्या काल्या प्रजने>> - उपसर्या । प्रजननं प्रजनः = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मित्यनुवर्तमानेकालाद्य॑दिति यत् । चेदित्यध्याहार्यम् । तदाह — गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिर्विवक्षिता चेदुपसर्या इति निपात्यते इत्यर्थः । उपपूर्वात् सृधातोर्यदिति फलितम् । ण्यतोऽपवादः ।
उपसर्या काल्या प्रजने॥ उपपूर्वात्सर्तेरिति। भौवादिकस्य जौहोत्यादिकस्य च'सर्तिशास्त्यर्तिभ्यश्च' इति निर्देशात्सूत्राद्वहिरपि लुका निर्द्देशः। प्राप्तकाला काल्येति।'तदस्य प्राप्तम्' इति वर्तमाने'कालाद्यत्' इति यत्। प्रजननमुप्रजनः, भावे घञ्,'जनिवध्योश्च' इति वृद्धिप्रतिषेधः। उपसर्या गौरिति। गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः, वृषभोपगमनस्य प्राप्तकालेति यावत्। उपसार्येति। उपसरणीया, प्राप्तव्येत्यर्थः॥