अर्यः स्वामिवैश्ययोः

3-1-103 अर्यः स्वामिवैश्ययोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे

Kashika

Up

index: 3.1.103 sutra: अर्यः स्वामिवैश्ययोः


ऋ गतौ, अस्माण् ण्यति प्राप्ते स्वामिवैश्ययोः अभिधेययोः यत् प्रत्ययो निपत्यते। अर्यः स्वामी। अर्यो वैश्यः। यतोऽनावः 6.1.213 इत्याद्युदात्तत्वे प्राप्ते स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। स्वामिवैश्ययोः इति किम्? आर्यो ब्राह्मणः।

Siddhanta Kaumudi

Up

index: 3.1.103 sutra: अर्यः स्वामिवैश्ययोः


ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥

Balamanorama

Up

index: 3.1.103 sutra: अर्यः स्वामिवैश्ययोः


अर्यः स्वामिवैश्ययोः - अर्यस्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद इति ।ऋहलो॑रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह — अर्यः स्वामीति । आर्यो ब्राआहृण इति । ण्यति वृद्धौ रपरत्वमिति भावः ।

Padamanjari

Up

index: 3.1.103 sutra: अर्यः स्वामिवैश्ययोः


अर्यः स्वामिवैश्ययोः॥ स्वमिन्यन्तोदातत्वञ्चेति। अथ यो वैश्यः स्वामी च, तत्र कथम्? उच्यते - -वैश्याख्यायामाद्यौदातत्वम्, स्वाम्याख्यायामन्तोदातत्वम्। तथा च ठर्यस्य स्वाम्याख्यायाम्ऽ इति फिट्सूत्रे आख्याग्रहणं कृतम्। आर्यो ब्राह्मण इति। प्राप्तव्य इत्यर्थः॥