वह्यं करणम्

3-1-102 वह्यं करणम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वहेर्धातोः करणे यत् प्रत्ययो निपात्यते। वहत्यनेनेति वह्यं शकटम्। करण इति किम्? वाह्यमन्यत्॥

Siddhanta Kaumudi

Up

वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वह्यं करणम्>> - वह्रं करणम् । वहेः करणे यन्निपात्यते । ण्यतोऽपवादः ।

Padamanjari

Up

वह्यं करणम्॥ वहेर्द्धातोः करणे यत्प्रत्ययो निपात्यत इति। अर्थव्याख्यानमेतत्।'वह्यमिति निपात्यते करणं चेद्भवति' इति वक्तुअं युक्तम्॥