येषां च विरोधः शाश्वतिकः

2-4-9 येषां च विरोधः शाश्वतिकः एकवचनम् द्वन्द्वः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विरोधो वैरम्, शाश्वतिको नित्यः। येषां शाश्वतिको विरोधः, तद्वाचिनां शब्दानां द्वन्द्व एकवद् भवति। मार्जारमूषकम्। अहिनकुलम्। शाश्वतिक इति किम्? गौपालिशालङ्कायनाः कलहायन्ते। चकारः पुनरस्यैव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनामनेन नित्यमेकवद्भावो भवति — अश्वमहिषम्। काकोलूकम्॥

Siddhanta Kaumudi

Up

एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वात् विभाषा वृक्षमृग <{SK916}> इति प्राप्तं चकारेण बाध्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<येषां च विरोधः शाश्वतिकः>> - येषां च । शेषपूरणेन सूत्रं व्याचष्टे — एषां प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः ।शआ॑दित्यव्ययं सदेत्यर्थे वर्तते । ततो भवार्थे ठञ् । निपातनादव्ययानां भमात्रे टिलोपः, 'इसुसुक्तान्तात्कः' इति कादेशस्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वभाविको विरोधः प्रसिद्धः । विरोधो — वैरं, नतु सहानवस्थितिः तेन छायातपावित्यत्र न भवति । 'देवाऽसुराः' इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि काले तेषां विरोधाऽभावात् । ननुविभाषा वृक्षमृगे॑ति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य तावद्गोमहिषु गोमहिषाः, हंसचक्रवाकं, हंसचक्रवाका इत्यत्रावकाशः ।येषां चे॑त्यस्य-अहिनकुलमित्यवकाशः गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्क्याह — गोव्याघ्रमिति । चकारेणेति ।येषां चे॑ति चकारेणेत्यर्थः । एतच्च भाष्ये स्पष्टम् ।

Padamanjari

Up

येषां च विरोधः शाश्वतिकः॥ विरोधो वैरमिति। न सहानवस्थानादिः, छायातपावित्यादावपि प्रसङ्गात्। पूर्वसूत्राच्चानुवृतेन जन्तुग्रहणेन विरोधस्य विशेषणात्। जन्तूनां हि विरोधो वैरमेव भवति। शाश्वतिको नित्य इति। शश्वदिति त्रैकाल्यमाह।'तत्र भवाः' इति कालाट्ठञि तान्तादपि निपातनादिकादेशः, अव्ययानां भमात्रे टिलोपाभावश्च। गोपालस्यापत्यानि गौपालयः, अत्र कादाचित्को विरोधः। चकारः पुनारित्यादि। पशुशकुनिद्वन्द्वावकाशः - महाजोरभ्रं महाजोरभ्राः, हंसचक्रवाकं हंसचक्रवाकाः; विरोधिनामेकवद्भावस्यावकाशः - श्रमणब्राह्मणम्, मार्जारमूषिकम्; अश्वमहिषं काकोलूकमित्यत्रोभयप्रसङ्गे परत्वात्पशुशकुनिविभाषा स्यात्, चकारादयमेव भवति॥