2-4-10 शूद्राणाम् अनिरवसितानाम् एकवचनम् द्वन्द्वः च
index: 2.4.10 sutra: शूद्राणामनिरवसितानाम्
निरवसानं बहिष्करणम्। कुतो बहिष्करणम्? पात्रात्। यैर्भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः। न निरवसिताः अनिरवसिताः। अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद् भवति। तक्षायस्कारम्। रजकतन्तुबायम्। अनिरवसितानाम् इति किम्? चण्डालमृतपाः।
index: 2.4.10 sutra: शूद्राणामनिरवसितानाम्
अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥
index: 2.4.10 sutra: शूद्राणामनिरवसितानाम्
शूद्राणामनिरवसितानाम् - शूद्राणाम् ।अनिरवसित॑शब्दं व्याचष्टे — अबहिष्कृतानामिति ।यैर्भुक्तं पात्रं क्षारोदकप्रक्षालनेन संस्कारेणापि न शुध्यत ते निरवसिताः, — चण्डालादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः॑इति भाष्ये स्पष्टम्य । शूद्राणामिति.त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः,अनिरवसिताना॑मिति लिङ्गात् । प्राग्वदिति । समाहरद्वन्द्व एकवदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः ।अनिरवसिताना॑मित्यस्य प्रयोजनमाह — पात्रादिति । चण्डालमृतपा इति । #एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति-अत एव भाष्याद्विज्ञेयम् । धर्मशात्रेषु च प्रसिद्धमेतत् ।
index: 2.4.10 sutra: शूद्राणामनिरवसितानाम्
शूद्राणामनिरवसितानाम्॥ शूद्रशब्दोऽत्र त्रैवर्णिकव्यतिरिक्तजातिमात्रवचनः, न वृषलपर्यायः, निरवसितप्रतिषेधात्। निरवसित इति। निरवपूर्वात्स्यतेः कर्मणिक्तः। तत्र प्रकृत्यर्थमाह - निरवसानं बहिष्करणमिति। अनेकार्थत्वाद्धातूनामुपसर्गवशाद्वेति भावः। पात्राद्वहिष्करणमिह विवक्षितमित्याह - यैरिति। संस्कारेणापीति।'भस्मना शुध्यते कांस्यम्' इत्यादिना स्मृतिकारैरुक्तेन न शुध्यति, तेन तत्र भोक्तुअं न लभन्त इति ततो बहिष्कृता भवन्ति॥